________________
सूक्ष्मसम्परायप्रथमसमये दलप्रक्षेपः ]
किट्टवेदनाद्वाधिकारः
[ ३९१
'सुमगुणत्तो' इत्यादि, 'सूक्ष्मगुणतः ' पदैकदेशे पदसमुदायस्योपचारात् सूक्ष्मसम्परायगुणस्थानकाद्धातो 'गुणश्रेणिनिक्षेपो' मोहनीयस्य गुणश्रेण्यायामोऽन्तरस्थितीनां संख्येयभागकल्पो भवन् विशेषाधिको भवति । भणितं च कषायप्राभृतचूण- “गुणसेढिणिक्खेवो सुमसांपराइयडादो विसेसुत्तरो ।" इति । एवं ज्ञानावरणादीनामपि गलितावशेषगुणणिनिक्षेपः सूक्ष्मसम्परायाद्धातो विशेषाधिको भवति, नवरं मोहनीयगुणश्रेणिनिक्षेपतः शेषकर्मणां तात्कालिकगलितावशेष - गुणश्रेणिनिक्षेपोऽन्तमुहूर्त कालेनाऽधिको भवति, क्षीणकषायगुणस्थानकालस्योऽपरि शेषकर्मगुणश्रेणिशिरोदर्शनात् । अथ मोहनीयगुणश्रेणौ तदुपरि च दलनिक्षेपं भणति'तत्थ' इत्यादि, 'तत्र' सूक्ष्मसम्परायाद्धातो विशेषाधिकाऽऽयामलक्षणे गुणश्रेणिनिक्षेपेऽसंख्यगुणक्रमेण प्रदेशा' 'निक्षिपति' प्रक्षिपति । अयम्भावः सूक्ष्मकिट्टिगतस्य दलस्याऽसंख्येयभागप्रमाणं दलमुत्कीर्योत्कीर्णस्य च दलस्याऽसंख्येयभागप्रमितं दलं गृहीत्वोदयनिषेके स्तोकं दलं ददाति । तदनन्तरोपरितन द्वितीयनिषेकेऽसंख्येयगुणं दलं ददाति । ततोऽपि तृतीयनिषेकेऽसंख्येयगुणं दलं ददाति । एवमसंख्यातगुणक्रमेण तावद् ददाति यावदन्तमुहूर्तप्रमाणगुणश्रेणिनिक्षेपस्य चरमनिषेकः । अवाचि च कषायप्राभृतचूर्णो - "तदो पदेसग्गमोकड्डियूण उदये थोवं दिण्णं । अंतोमुहुत्तडमेत्तमसंखेजगुणाए सेढोए देदि ।" इति । ततो बह्वसंख्येयभागप्रमितं दलं गृहीत्वा 'चरमात्' प्रत्यासच्या गुणश्रेणिनिक्षेपचरमनिषेकतोऽसंख्यगुणं प्रदेशम् 'अन्तराद' अन्तरकरण प्रथमनिषेके निक्षिपति । इदमुक्त' भवति - इदानीमती स्थापनां वर्जयित्वा सर्वत्र दलनिक्षेपं करोति, तेनाऽन्तरकरणं न संभवति, तथाप्यनिवृत्तिकरणे निष्पादितस्याऽन्तरकरणस्य गुणश्रेणिं वर्जयित्वा येषु निषेकेषु दलनिक्षेपं करोति, ते "भूतपूर्वकस्तदुपचारः” इति न्यायेनाऽन्तरकरणनिषेका भण्यन्ते, तेषां च प्रथमनिषेके गुणश्रेणिशिरस उपरितने प्रथमनिषेक इति यावत्, गुण चिरमनितोऽसंख्येयगुणं दलिकं निक्षिपति । 'ताउ' इत्यादि, ‘तस्मात् ' अन्तरप्रथमनिषेक्तच विशेषोनं दलमुपरि यथाक्रमं निक्षिपति, यावदन्तरचरमनिषेकः, तस्योपरि भिन्नक्रमेण दलिकनिक्षेपप्रतिपादनात् । अथ द्वितीयस्थितिप्रथमनिषेके दलनिक्षेपं व्याहतु कामः प्राह - 'तओ' इत्यादि, ' ततः' अन्तकरणचरमनिषेकतो 'द्वितीयादौ' द्वितीयायाः -- द्वितीपस्थित्या आदौ - प्रथमनिषेके 'संखगुणहोणयं'ति कप्रत्ययस्य स्वार्थिकत्वात् संख्यगुणहीनं दलं प्रक्षिपति । समवादि च कषायप्राभृतचूर्णौ -- “गुणसेढिसोसगादो जा अणंतरठ्ठिदी, तत्थ असंखेज्जगुणं । ततो विसेसहोणं ताव, जाव पुव्वसमये अंतरमासी तस्स अंतरस्स चरिमादो अंतरद्विदोदो त्ति पुव्वसमये जा विदियहिदी, तिस्से आदिट्ठदोए दिज्जमाणगं पदेसग्गं संखेज्जगुणहोणं तत्तो विसेसहीणं ।” इति । इहापि द्वितीयस्थितिव्यपदेशस्तु "भूतपूर्वकस्तदुपचारः” इति न्यायाद् बोध्यः । अयं भावः – सूक्ष्मसम्परायगुणस्थानकप्रथमसमये सत्तागतदलस्याऽसंख्येयभाग प्रमितं दलमुत्कीर्य
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org