________________
३९२ ]
खवगसेढी
[ गाथा-२०६-२०७ तस्यैकाऽसंख्येयभागप्रमितं दलं गृहीत्वा गुणश्रेणौ निक्षिप्य शेषान् बहूनसंख्येयभागान् गुणश्रेणेरुपरि निक्षिपति । तत्रापि बह्वसंख्येयभागमात्रदलस्य बहून् संख्येयभागानेकं वा संख्येयभागमन्तरस्थितिषु विशेषहीनक्रमेण निक्षिप्य शेषदलं द्वितीयस्थितौ समयाऽधिकाऽऽवलिकाप्रमाणातीत्थापनान्यूनायां विशेषहीनक्रमेण प्रक्षिपति । इह यथा प्रथमपक्षे दोषाभावः, तथा द्वितीयेऽपि । तथाहि-अपकृष्टसर्वदलस्या-ऽसंख्येयभागप्रमाणं दलमन्तरस्थितिनिषेकतः संख्यातगुणहीनेषु गुणश्रेणिनिषेकेषु यथाविभागं ददाति, बहसंख्यातभागप्रमितदलस्य च संख्येयतमभागं पृथक्स्थाप्य बहून् संख्येयभागान् यथाविभागं गुणश्रेणिनिषेकतः संख्यातगुणेष्वन्तरस्थितिनिषेकेषु ददाति । इत्थं गुणश्रेणिचरमनिषेकतोऽन्तरस्थितिप्रथमनिषेके दीयमानदलमसंख्येयगुणं जायते, संख्यातगुणनिषेकेष्वसंख्यातगुणदलिकस्य प्रक्षेपात् । ततः परं विशेषहीनक्रमेण तावद्ददाति, यावदन्तरस्थितिचरमनिषेकः । पृथक्स्थापितैकसंख्येयभागन्त्वन्तरस्थितितः संख्यातगुणेषु द्वितीयस्थितिनिषेकेषु यथाविभागं निक्षिपति । इत्थमन्तरस्थितिचरमनिषेकतो द्वितीयस्थितिप्रथमनिषेके दीयमानं दलं संख्यातगुणहीनं जायते, संख्यातगुणनिषेकेषु संख्येयभागमात्रदलिकस्य प्रक्षिप्यमाणत्वादिति प्रथमपक्षः।
__ अथ द्वितीयपक्षो व्युत्पाद्यते-अपकृष्टसकलदलस्याऽसंख्येयभागः पूर्ववद् गुणश्रेणिनिषेकेषु दातव्यः । शेषाणां बह्वसंख्येयभागानां संख्येयतमभागमन्तरस्थितिनिषेकेषु यथाविभागं निक्षिपति । इत्थमपि गुणश्रेणिचरमनिषेकतोऽन्तरस्थितिप्रथमनिषेके दीयमानं दलमसंख्येयगुणं जायते, संख्यातगुणनिषेकेष्वसंख्यातगुणदलिकस्य निक्षिप्यमाणत्वात् । ततः शेषान् बहुसंख्ययभागान् समयाधिकाऽवलिकारूपामतीत्थापनां वर्जयित्वा द्वितीयस्थितिसर्वनिषेकेषु विशेषहीनक्रमेण ददाति । इत्थमप्यन्तरस्थितिचरमनिषकतो द्वितीयस्थितिप्रथमनिषेके दीयमानं दलं संख्येयगुणहीनं भवति, अन्तरस्थितौ दीयमानदलतो द्वितीयस्थितौ दीयमानदलस्य संख्येयगुणत्वेऽप्यन्तरस्थितिनिषेकतो द्वितीयस्थितिनिषेकाणां संख्येयगुणत्वात् ।
एवंक्रमेण दलिकप्रक्षेपस्तावद्वाच्यः, यावत् सूक्ष्मसम्परायगुणस्थानके प्रथमस्थितिघातः पूर्णो भवति, नवरं प्रथमस्थितिघाताद्धाचरमसमययुत्कीर्णस्य दलस्य बहसंख्येयभागमात्रदलस्य
___ जयधवलाकारा अपिप्रथमपक्षं प्रदर्य द्वितीयपक्षेऽपि दोषाभावं स्वीकुर्वन्ति । तथा च तद्ग्रन्थः"कुदो ? अंतरदिदीसु पुश्वुत्तदव्वस्स संखेज्जे भागे रिणसिंचियूरण पुणोसेससंखेज्जदिभागमेतदव्वमंतरायामादो संखेज्जगुरगविदियट्टिवीए जहापविभागं रिणसिंचमारणस्स परिप्फुडमेवेदम्मि संधिविसये दिज्जमारणपदेसग्गस्स संखेज्जगुरणहीरणत्तदंसरणादो।xxxx जइवि एत्थ अंतरदिदीसु प्रोकड्डिदसयलदव्वस्स संखेजदिभागमेत्तमेव दव्वं रिणसिंचदि, विदियट्टिदीए च संखेज्जे भागे रिणसिंचदि त्ति घेप्पइ । तो विपयदत्थसिद्धीए पत्थि पडिबंधो, अंतरायामादो विदियट्टिदोमायामस्स (स्सा)संखेज्जगुणत्तमस्सियूण तस्स सिद्धीए बाहाणुवलंभादो।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org