SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ३९० ] खबगसेढी [गाथा-२०५-२०७ अनिवृत्तिवादरसम्परायगुणस्थानकसमाप्तिसमनन्तरं सूक्ष्मसम्परायगुणस्थानकं प्रतिपद्यते । तेन सूक्ष्मसम्परायगुणस्थानके प्रक्रियाविशेष प्रदर्शयितुकामः प्राह सेकाले सुहुमगुणहाणं पडिवजए तयाणि य । गुणसेटिं करइ सुहुमकिट्टी उक्किरिय वेयइ य ॥२०५॥ अनन्तरकाले सूक्ष्मगुणस्थानं प्रतिपद्यते तदानीञ्च ।। गुणश्रेणिं करोति सूक्ष्मकिट्टीरुत्कीर्य वेदयति च ॥२०५।। इति पदसंस्कारः । 'सेकाले' इत्यादि, 'अनन्तरकाले' बादरकिट्टिवेदनाद्धासमाप्तितोऽनन्तरसमये 'सूक्ष्मगुणस्थानं' सूक्ष्मसम्परायगुणस्थानकं प्रतिपद्यते, परिणाममाहात्म्यात् । तदानीं किं करोति ? इत्यत आह'तयाणिं य' इत्यादि, तदानीञ्च 'सक्ष्मकिट्टी' समकिट्टिगतप्रदेशानुत्कीय गुणश्रेणि' गुणेन-उदयसमयादारभ्याऽसंख्येयगुणकारेण श्रेणि-प्रदेशरचनां 'करोति' निवर्तयति । उदयसमयतः प्रभृत्यसंख्येयगुणक्रमेण दलिकं निक्षिप्य प्रथमस्थितिं विदधातीत्यर्थः । 'वेदयति च तदानीञ्चैव सूक्ष्मकिट्टीरनुभवति । यदुक्तं सप्ततिकाचूर्णी--तओ सेकाले सुहुमसंपराइगकिट्टीओ दलिअं ओकड्डित्तु पढमहितिं करेइ । ततियतिभागमेत्तं वेदेइ य, तओ सुहुमसंपराइओ वुच्चइ ।" इति । एवं शतकचूर्णावपिः "वायररागेण कया सुहुमो वेएइ सुहुमकिटोओ। तम्हा सुहुमकसाओ सुहुमो सुडप्प योगप्प ॥१॥” इति ॥२०५॥ ननु गुणश्रेणिनिक्षेपः सूक्ष्मकिट्टिवेदनाद्धाप्रथमसमये कियान् भवति ? तथा गुणश्रेण्यां तदुपरितनस्थितिषु च दलिकनिक्षेपः कथं भवति ? इत्याशङ्काव्युदासाय प्राह सुहुमगुणत्तो गुणसेढीणिक्खेवो विसेसअब्भहिओ। तत्थ असंखगुणकमेणं णिखिविज्जा पसग्गं ॥२०६॥ चरिमाउ असंखगुणं अंतरआइम्मि ताउ य विसेसूणं । उवरि तओ बीयाइम्मि ताउ संखगुणहीणयं तो हीणं ॥२०७॥ (आर्यागोतिः) सूक्ष्मगुणतो गुणश्रेणिनिक्षेपो विशेषाभ्यधिकः । तत्राऽसंख्यगुणक्रमेण निक्षिपति प्रदेशाग्रम् ।।२०६।। चरमादसंख्यगुणमन्तरादौ तस्माच्च विशेषोनम् । उपरि ततो द्वितीयादौ तस्मात् संख्यगुणहीनं ततो हीनम् ।।२०।। इति पदसंस्कारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy