________________
अधस्तनशीर्पचयादिदलम ] किट्टिवेदनाद्धाधिकारः
[ ३८३ (३) अन्तरजाऽपूर्वसूक्ष्मकिटिसमानखण्डदलम्-पूर्वसमयकृतप्रथमसूक्ष्मकिट्टिगतप्रदेशतुल्या अन्तरजाऽपूर्वसक्ष्मकिट्टयः स्थापयितव्याः । स्थापितायाञ्चैकैकस्यां सूक्ष्मकिट्टौ यद् दलं भवति, तदेकान्तरजा-ऽपूर्वसूक्ष्मकिद्विसमानखण्डदलमुच्यते । एकाऽन्तरजाऽपूर्वसूक्ष्मकिट्टिसमानखण्डदलमन्तरजाऽपूर्वसूक्ष्मकिट्टिराशिना गुण्यते, तदा सर्वा-ऽन्तरजाऽपूर्वसूक्ष्मकिट्टिसमानखण्डदलं प्राप्यते ।
(४) उभयचयदलम्-पूर्वोक्तदलत्रये यथायोग्यं प्रक्षिप्ते सर्वपूर्वाऽपूर्वसूक्ष्मकिट्टयः समानदलिका जायन्ते । तासां दलिकं गोपुच्छाकारं कतु चरमपूर्वसूक्ष्मकिट्टयामेकश्चयः प्रक्षेपणीयः, विचरमपूर्वसूक्ष्मकिट्टी द्वौ चयौ प्रक्षेपणीयो । एवंक्रमेण पश्चानुपूयों चयास्तावत् प्रक्षेप्तव्याः, यावद् द्वितीयसमये क्रियमाणप्रथमाऽधस्तना-ऽपूर्वसूक्ष्मकिट्टिः । ते च "सैकपदघ्नपदार्धमथैकायङ्कयुतिः किल संकलिताख्या।” इति करणसूत्रेण संकलयितव्याः । पदं त्वत्र पूर्वापूर्वसूक्ष्मकिट्टिराशितिव्यम् । एते च चया उभयचया उच्यन्ते । सर्वोभयचयैरेकोभयचयगतदलं गुण्यते, तदा सर्वोभयचयदलं प्राप्यते ।
नन्वेकोभयचयगतदलं कियद् भवति ? इति चेत्, उच्यते—प्रथमसमये सूक्ष्मकिट्टितया परिणमनाय गृहीतदलं द्वितीयसमये च सूक्ष्मकिट्टितया परिण मनाय गृह्यमागदलमिति दलद्वयं पदेन विभज्यते, तदा मध्यमदलं प्राप्यते । तत्पुनरीकृतैकोनपदन्यूनाभ्यां द्वाभ्यां द्विगुणहानिभ्यां विभज्यते, तदैकोभयचयदलं प्राप्यते । पदन्त्वत्र समयद्वयकृतसूक्ष्मकिट्टिराशिरवगन्तव्यम् । न्यास:मध्यमदलम समयद्वये सूक्ष्मकिट्टितया परिणमनाय गृहीतदलम।
पदम्
मध्यमदलम् एकोभयचयदलम् =
(पदम् -१) द्वे द्विगुणाहानी-- (५) मध्यमखण्डदलम्--द्वितीयसमये सूक्ष्मकिट्टितया परिणमनाय गृहीतसकलदलतः पूर्वोक्ताधस्तनशीपचयादिदलचतुष्टयं विशोध्य शेषदलं मध्यमखण्डदलमुच्यते । तच्च पूर्वापूर्वसूक्ष्मकिट्टिराशिना विभज्यते, तदैकं मध्यमखण्डं प्राप्यते । एकमध्यमखण्डदलं चाऽधस्तनापूर्वसूक्ष्मकिट्टिसमानखण्डदलतोऽसंख्येयगुणं भवति । एकैकं मध्यमखण्डं सर्वपूर्वापूर्वसूक्ष्मकिट्टिष्वविशेषेण दातव्यम् ।
लोभतृतीयसंग्रहकिट्टिसंक्रमदलस्याऽधस्तनशीर्षचयादिविभागचतुष्टयं लोभद्वितीयसंग्रहकिट्टयाश्च घातदलस्या-ऽधस्तनशीर्षचयादिविभागत्रयं बन्धदलस्य च बन्धापूर्वावान्तरकिट्टिसमानखण्डादिविभागचतुष्टयं पूर्ववदवसेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org