________________
३८२ ]
खगसेढी
[गाथा - १९८-१९९
विदियाए किट्टीए अनंतभागहोणं । एवं गंतॄण पढमसमर जा जहणिया सुहुमसांपराइय किट्टी, तत्थ असंखेजदिभागहीणं । तत्तो अनंतभागहोणं जाव अपुव्वं णिव्वत्तिजमाणगं ण पावदि, अपुव्वाए णिव्वत्तिज्जमाणिगाए किट्टीए असंखेज्जदिभागुत्तरं पुच्वणिव्यत्तिदं पडिवज्जमाणगस्स पदेसग्गस्स असंखेज दिभागहीणं । परं परं पडिवजमाणस्स अनंतभागहीणं ।" इति । यथा द्वितीयसमये सूक्ष्मकिट्टिषु दल निक्षेपविधिः प्ररूपितः, तथैव तृतीयादि समयेष्वपि तावत् ग्ररूपयितव्यः, यावत्सूक्ष्मकिट्टिकरणाद्धाचरमसमयः । अभाणि च कषायप्राभृतचूर्णो- "जो विदियसमए दिज्ज माणगस्स पदेसग्गस्स विधी, सो चैव विधो सेसेसु वि समएसु जाव चरिमसमयबादरसंपराइयो त्ति ।" इति ।
बादर किट्टिषु दलनिक्षेपस्तु प्रथमसमयवज्ज्ञातव्यः । अथ गणितविभागः ।
साम्प्रतं सूक्ष्म किट्टिकरणाद्धाया द्वितीयसमये दलिकनिक्षेपोऽवस्तनशीर्षचयादिप्ररूपणया स्पष्टीक्रियते ।
सूक्ष्मकिट्टिकरणाद्धाद्वितीयसमये प्रथमसमयतोऽसंख्यातगुणं दलं सूक्ष्मकिट्टितया परिणमनाय गृह्णाति । अथ द्वितीयसमये सूक्ष्मकिट्टितया परिणमनाय गृहीतसकलदलं विभागपञ्चके विध जनीयम् - (१) अधस्तनशीर्षचयदलम् (२) अधरतनाऽपूर्व सूक्ष्मकिट्टिसमानखण्डदलम् (३) अन्तरजा--पूर्वसूक्ष्म किट्टिसमानखण्डदलम् (४) उभयचयदलं (५) मध्यमखण्डदलं चेति ।
(१) अथाऽधस्तनशीर्षचयदलम् - सर्वाः पूर्व सूक्ष्मकिट्टी : प्रथम समयकृत जघन्य सूक्ष्मकिट्टिगत प्रदेश तुल्याः कतु द्वितीयपूर्व सूक्ष्म किट्टा बेकचयं ददाति तृतीय पूर्वसूक्ष्म किडी द्वौ चयाँ ददाति । एवमेकोत्तरवृद्धया तावद् ददाति यावच्चरमपूर्वसूक्ष्म किट्टिः । एते च चया अधस्तनशी च्या उच्यन्ते । सर्वाधस्तन शीर्षचयाथ "सैकपदन्नपदार्थ मथैकाद्यङ्कयुतिः किल संकलिताख्या ।" इति करणसूत्रेण सङ्कलयितव्याः । पदं त्वत्रैकोनपूर्वसूक्ष्म किट्टिराशिर्बोध्यम् ।
एकाऽधस्तशीर्षचयदलं सर्वाऽधस्तनशीर्षचयेगु ण्यते, तदा सर्वाऽधस्तनशीर्षचयदलं
प्राप्यते ।
(२) अधस्तनाऽपूर्व सूक्ष्मकिट्टिसमानखण्डदलम् - पूर्वसमयकृत प्रथमसूक्ष्मकिट्टिगतप्रदेशतुल्या अधस्तनाऽपूर्वसूक्ष्मकिट्टयः स्थापयितव्याः । स्थापितायाञ्चैकैकस्यां किट्टौ यद् दलं भवति, तदेकाऽधस्तनाऽपूर्वसूक्ष्मकिट्टिसमानखण्डदलमुच्यते । एकाऽधस्तनापूर्वसूक्ष्म किट्टिसमानखण्डदलमधस्तनाऽपूर्वसूक्ष्म किडिराशिना गुण्यते, तदा सर्वाऽधस्तनाऽपूर्वसूक्ष्म किट्टिदलं प्राप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org