________________
[३८१
पूर्वापूर्वसूक्ष्मकिट्टिषु दलनिक्षेपः ] किट्टिवेदनाद्धाधिकारः ताभ्यः 'अन्तरेषु' पूर्वसूक्ष्मकिट्टयन्तरेष्वसंख्यगुणा अपूर्वसूक्ष्मकिट्टीः करोति । यदुक्त कषायप्राभूतचूर्णी-हेट्ठा थोवाओ, अंतरेसु असंखेज्जगुणाओ।” इति ॥१९७॥
अथ पूर्वापूर्वसूक्ष्मकिट्टिषु दलनिक्षेपं विभणिपुराह
देइ दलिअं अपुबसुहुमकिट्टित्तो अणंतराए तु । पुवसुहुमकिट्टीए हीणमसंखेज्जभागेणं ॥१९८॥ पुबाउ असंखंसाहियं अणंतरअपुवकिट्टीए। सेसासुपुब्बापुवासु कमेणं विसेसूणं ॥१९९॥ ददाति दलिकमपूर्वसूक्ष्मकिट्टितोऽनन्तरायां तु पूर्वसूक्ष्मकिट्टयां हीनमसंख्येयभागेन ॥१९८।। पूर्वस्या असंख्यांशाधिकमनन्तरापूर्वकिट्टी।
शेषासु पूर्वापूर्वासु क्रमेण विशेषोनम् ॥१९९॥ इति पदसंस्कारः । 'देइ' इत्यादि, तत्राऽपूर्वसूक्ष्मकिट्टितोऽनन्तरायां तु पूर्वसूक्ष्मकिट्टयामसंख्येयभागेन हीनं दलिकं ददाति । 'पुव्वाउ' इत्यादि, 'पूर्वस्याः' पूर्वसूक्ष्मकिट्टितो 'अनन्तराऽपूर्वकिट्टी' अनन्तरापूर्वसूक्ष्मकिट्टी 'असंख्यांशाधिकम्' असंख्येयभागाधिक दलं ददाति । 'सेसासु' इत्यादि, 'शेषासु' उक्तोद्धरितासु'पूर्वापूर्वासु' पूर्वसूक्ष्मकिट्टिष्वपूर्वसूक्ष्मकिट्टिषु च क्रमेण 'विशेषोनम्' अनन्ततमभागेन हीनं दलं ददाति । इदमुक्तं भवति-सूक्ष्मकिट्टिकरणाद्धाया द्वितीयसमये प्रथमसमयकृतजघन्यकिटेरधस्ताद् याः सूक्ष्मकिट्टीः करोति, तासां सर्वजघन्याऽधस्तना- पूर्वसधमकिट्टौ दलिकं प्रभूतं ददाति । ततो द्वितीयस्यामधस्तना-ऽपूर्वसूक्ष्मकिट्टावनन्तभागेन हीनं दलं ददाति, ततोऽनन्तरान्तरेणाऽनन्तभागेन हीनं तावद्ददाति, यावच्चरमाऽधस्तनाऽपूर्वसूक्ष्मकिट्टिः ।
___ ततः परं चरमाऽधस्तनाऽपूर्वसूक्ष्मकिट्टितोऽसंख्यातभागेन हीनंदलं प्रथमसमयकृतप्रथमसूक्ष्मकिट्टिलक्षणायां प्रथमपूर्वसूक्ष्मकिट्टौ ददाति । अत्र कारणं तु किट्टिकरणाद्धायां पूर्वावान्तरकिट्टयपूर्वावान्तरकिट्टयोः सन्धौ यथा प्ररूपितम् , तथैवा-ऽनुगन्तव्यम् , विशेषाभावात् । ततो द्वितीयादिषु पूर्वसमकिट्टिषु विशेषहीनक्रमेण तावद् ददाति, यावदन्तरजाऽपूर्वसूक्ष्मकिट्टिरप्राप्ता भवति । ततोऽन्तरजा-ऽपूर्वसूक्ष्मकिट्टयामसंख्येयभागाधिकं दलं ददाति, ततोऽसंख्येयभागेन हीनं दलं तदनन्तरपूर्वसमकिट्टौ ददाति, ततः परं विशेषहीनक्रमेण तावद् ददाति, यावच्चरमपूर्वसक्षमकिट्टिः, नवरं यत्र यत्राऽपूर्वसूक्ष्मकिट्टिर्निवत्यते, तत्र तत्र प्राक्तनपूर्वसूक्ष्मकिट्टितोऽसंख्येयभागाधिकं दलिकं ददाति, तदनन्तरपूर्वसूक्ष्मकिट्टो चाऽसंख्येयभागेन हीनं दलं ददाति । उक्तं च कषायप्राभृतचूर्णी-"विदियसमये दिजमाणगस्स पदेसग्गस्स सेढिपख्वणा-जा विदियसमए जहणिया सुहुमसांपराइयकिट्टो, तिस्से पदेसग्गं दिनदि बहुअं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org