________________
३८४ ]
खवगसेढी
[ गाथा-१९८-१९९ ___ अथ पूर्वापूर्वसूक्ष्मकिद्दिषु दलनिक्षेपो भण्यते-द्वितीयसमये सूक्ष्मकिट्टितया परिणमनाय गृहीतदलात् प्रथमा-ऽधस्तनापूर्वसधमकिट्टावकमधस्तनाऽपूर्व सक्षमकिट्टिसमानखण्डं पूर्वापूर्वसूक्ष्मकिट्टिराशिप्रमाणानुभयचयानेकंच मध्यमखण्डं ददाति । तच्च दीयमानं दलं प्रभूतं भवति, उपरि दीयमानदलस्य हीनत्वात् । ततो द्वितीया-ऽधस्तनाऽपूर्वसूक्ष्मकिट्टयामेकमधस्तना-ऽपूर्वकिट्टिसमानखण्डमेकोनपूर्वापूर्वसक्षमकिट्टिराशिप्रमाणानुभयचयानेकं च मध्यमखण्डं ददाति । इत्थं प्रथमा-ऽधस्तनाऽपूर्वसूक्ष्मकिट्टितो द्वितीया-ऽधस्तनाऽपूर्वसूक्ष्मकिट्टयामेकोभयचयेन हीनं दलं ददाति । उभयचयदलस्याऽनन्ततमभागमात्रत्वात् प्रथमा-ऽधस्तनाऽपूर्वसूक्ष्मकिट्टितो द्वितीयाऽधस्तनाऽपूर्वसूक्ष्मकिट्टावनन्ततमभागेन हीनं दलं ददातीति सिध्यति । ततः परं तृतीयाद्यधस्तनाऽपूर्वसूक्ष्मकिट्टिष्वेकैकमधस्तना-ऽपूर्वसूक्ष्मकिट्टिसमानखण्डमेकैकं मध्यम खण्डमेकोत्तरहान्या चोभयचयांस्तावत् प्रक्षिपति, यावच्चरमाऽधस्तनाऽपूर्वसूक्ष्मकिट्टिः ।
ततः परं प्रथमपूर्वसूक्ष्मकिट्टावेकं मध्यमखण्डं सर्वाऽधस्तनाऽपूर्वसूक्ष्मकिट्टिराशिन्यून-पूर्वापूर्वसूक्ष्मकिट्टिराशिप्रमाणांश्चोभयचयान् ददाति । तदेव चरमा-ऽधस्तनाऽपूर्वसमकिट्टितः प्रथमपूर्वसूक्ष्मकिट्टयामेकोभयचयेनैकेन चाऽधस्तना-ऽपूर्वसूक्ष्मकिट्टि समानखण्ड़े न हीनं दलं ददाति । इत्यश्च चरमा-ऽधस्तना-ऽपूर्वसूक्ष्मकिट्टितः प्रथमपूर्वसूक्ष्मकिट्टी दीयमानदलमसंख्येयभागेन हीनं जायते, एकमध्यमखण्डदलत एकाऽधस्तनाऽपूर्वसूक्ष्मकिट्टिसमानखण्डदलस्याऽसंख्येवगुणहीनत्वादुमयचयदलस्य चाऽधस्तनाऽपूर्वसमकिट्टिसमानखण्डदलाऽनन्ततमभागमात्रत्वात् ।
ततो द्वितीयपूर्वसूक्ष्मकिट्टावेकमधस्तनशीपचयमेकं मध्यमखण्डमेकाधिका-ऽधस्तना-ऽपूर्वसूक्ष्मकिट्टिराशिन्यूनपूर्वापूर्वसूक्ष्मकिट्टिराशिप्रमाणाँचोभयचयान् ददाति । तेन प्रथमपूर्वसूक्ष्मकिट्टितोऽस्यां दीयमानदलमनन्तभागेन हीनं जायते । कथमेतदवसीयते ? इति चेत् उच्यते-प्रथमपूर्वसूक्ष्मकिट्टितोऽस्यां दीयमानदलमेकाऽधस्तनशीर्षचयेनाऽधिकं जायते, एकोनयचयेन च हीनम् । तेनैकाऽधस्तनशीर्षचयदलन्यूनैकोभयचयदलेन हीनं दीयमानदलं प्रथमपूर्वसूक्ष्मकिट्टितो द्वितीयपूर्वसूक्ष्मकिट्टौ जायते । अधस्तनशीर्षचयदलस्य केवलमुभयचयदला-ऽसंख्येयभागमात्रत्वादुभयचयदलस्य चाऽधस्तनाऽपूर्वसूक्ष्म किट्टिसमानखण्डदलानन्ततमभागमात्रत्वात् प्रथमपूर्वसूक्ष्मकिट्टितो द्वितीयपूर्वसूक्ष्मकिट्टावनन्तभागेन हीनं दीयमानं दलं भवति । एवमग्रेऽपि भावनीयम् ।
ततः परं तृतीयादिपूर्वसूक्ष्मकिट्टिप्वकैकं मध्यमखण्डमेकोत्तरवृद्धया-ऽधस्तनशीर्षचयानेकोतरहान्या चोभयचयान् यथाक्रमं पल्योपमाऽसंख्यभागमात्रारवसंख्यातासु सूक्ष्मकिट्टिषु तावत्प्रक्षिपति, यावदन्तरजाऽपूर्वसक्ष्मकिट्टिरप्राप्ता भवति । __अन्तरजापूर्वसूक्ष्मकिट्टावेकं मध्यमखण्डं प्रथमाऽधस्तनाऽपूर्वसूक्ष्मकिट्टिप्रभृतिव्यतिक्रान्तपूर्वापूर्वसूक्ष्मकिट्टिराशिन्यूनसर्वपूर्वापूर्वसूक्ष्मकिट्टिराशिप्रमाणानुभयचयानेकं चाऽन्तरजाऽपूर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org