________________
३८० ] .
खवगसेढी
। गाथा-१९७ यावल्लोभद्वितीयसंग्रहकिट्टिबन्धचरमपूर्वावान्तरकिट्टिः, नवरमसंख्यातपल्योपमप्रथमवर्गमूलप्रमाणासु पूर्वावान्तरकिट्टिषु गतासु यत्र यत्र बन्धाऽपूर्वावान्तरकिट्टिर्निर्वयते, तत्र तत्रोभयचयस्थाने बन्धदलतो बन्धाऽपूर्वावान्तरकिट्टिचयानधस्तनशीपचयस्थाने च बन्धाऽपूर्वाऽवान्तरकिट्टिसमानखण्डं ददाति, घातदलतश्च मध्यमखण्डं न ददाति ।
लोभद्वितीयसंग्रहकिट्टिचरमबन्धपूर्वाऽवान्तरकिटेपरितनपूर्वाऽवान्तरकिट्टौ घातदलत एकं मध्यमखण्डं बादरप्रथमपूर्वावान्तरकिट्टिप्रभृतिव्यतिक्रान्तबादरपूर्वावान्तरकिट्टिराशिप्रमाणाऽधस्तनशीर्षचयान् बादरप्रथमपूर्वावान्तरकिट्टिप्रभृतिव्यतिक्रान्तबादरपूर्वापूर्वाऽवान्तरकिट्टिराशिन्यूनबादरसर्वपूर्वापूर्वाऽवान्तरकिट्टिराशिप्रमाणाँश्चोभयचयान् प्रक्षिपति । ततः परं घातदलत एकोत्तरवृद्धया-ऽधस्तनशीर्षचयानेकोत्तरहान्योभयचयाने कैकं च मध्यमखण्डं तावद् ददाति, यावल्लोभद्वितीयसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टिः । पश्यन्तु पाठका यन्त्रकम्-२७।
समाप्तो गणितविभागः। इत्थं भणितः सूक्ष्मकिट्टिकरणाद्धाप्रथमसमये दलनिक्षेपविधिः ॥१९६॥
उत्तरोत्तरसमयेऽसंख्येयगुणहीना अपूर्वसूक्ष्मकिट्टीनिवर्तयतीति प्रतिपादितं पञ्चनवत्यधिकशततमगाथया । अथ ताः कुत्र निर्वतयति ? किं किट्टिकरणाद्धावत् पूर्वासामेवाधस्ताद् निर्वतयति, उत क्रोधादिकिट्टिवेदनाद्धावदुभयत्र ? काश्च स्तोका निर्वतयति, काच प्रभूताः ? इति पृष्ट आह
वीयाइखणेसु अपुव्वा पुव्वाणन्तरेसु हे? य । कुणए हेठेऽप्पा ताउ अंतरेसु असंखगुणा ॥१९७॥
द्वितीयादिक्षणेष्वपूर्वाः पूर्वासामन्तरेष्वधस्ताच्च ।
करोत्यधस्तादल्पास्ताभ्योऽन्तरेष्यसंख्यगुणाः ।। १९७ ।। इति पदसंस्कारः । 'बोयाइखणेसु' इत्यादि, द्वितीयादिक्षणेषु' सूक्ष्मकिट्टिकरणाद्धाया द्वितीयादिसमयेषु 'पूर्वासां' पूर्व सूक्ष्म किट्टीनाम् ‘अन्तरेषु' द्वयोद्वयोः पूर्वसूक्ष्मकिट्टयोर्मध्ये यान्यन्तराणि, तेषु, 'अधस्ताच्च' पूर्वसूक्ष्मकिट्टीनाश्चाऽधस्ताज्जघन्यपूर्वसूक्ष्मकिटेरप्यधस्तादित्यर्थः, 'अपूर्वाः' अपूर्वसूक्ष्मकिट्टीः 'करोति' निवर्तयति । उक्तं च कषायप्राभृतचूर्णी-"सुहुमसांपराइयकिट्टीकारगो विदियसमये अपुव्वाओ सुहुमसांपराइयकिटोओ करेदि, असंखेजगुणहोणाओ । ताओ दोसु ठाणेसु करेदि । तं जहा-पढमसमए कदाणं हेहा च अंतरे च ।" इति । कषायप्राभतचूर्णिकृद्भिस्तृतीयादिसमयेषु द्वितीयसमयभाव्यपूर्वसूक्ष्मकिट्टिानेकृत्तिरतिदिष्टा । तेन तृतीयादिसमयेष्वपि क्षपकः पूर्वसूक्ष्मकिटेरधस्तात् सूक्ष्मकिट्टयन्तरेषु चाऽपूर्वसूक्ष्मकिट्टीनिवर्तयतीति सिध्यति । अधस्तात् 'स्तोकाः' अल्पा अपूर्वसूक्ष्मकिट्टीः करोति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org