________________
गणितरीत्या बादरकिट्टिषु दलनिक्षेपः ] किट्टिवेदनाद्धाधिकारः
[ ३७९ ततो लोभद्वितीय संग्रहकिर्जघन्यायां बन्धपूर्वावान्तरकिट्टौ घातदलत एकं मध्यमखण्डं बादरप्रथमपूर्वाऽधान्तरकिट्टिप्रभृतिव्यतिक्रान्तबादरपूर्वावान्तरकिट्टिराशिप्रमाणाऽधस्तनशीर्षचयान् बादरप्रथमपूर्वानान्तरकिट्टिप्रभृतिव्यतिक्रान्तवादरपूर्वापूर्वावान्तरकिट्टिराशिन्यनवादरसर्वपूर्वापूर्वावान्तरफिट्टिराशिप्रमाणोपयचयदलं चैकोभयचयदलाऽनन्ततमभागेन हीनं ददाति, एकोभयचयदलाऽनन्ततमभागप्रमाणदलस्य बन्धचयवन्धमध्यमखण्डरूपेण प्रक्षिप्यमाणत्वात् । बन्धदलतः पुनरेकं बन्धमध्यमखण्डं बन्धसर्वपूर्वापूर्वावान्तरकिट्टिराशिप्रमाणांश्च बन्धचयान् प्रक्षिपति ।।
ततः परमसंख्यातपल्योपमप्रथमवर्गमूलप्रमाणासु पूर्वावान्तरकिट्टिषु बन्धदलादेकोत्तरहान्या बन्धमानेकैकं च बन्धमध्यमवण्डं घातदलतः पुनरेकोत्तरवृद्धयाऽधस्तनशीर्षचयानेकोत्तरहान्योभयचयानेकैकं च मध्यमखण्डं तावद् ददाति, यावल्लोभद्वितीयसंग्रहकिट्टिप्रथमवन्धाऽपूर्वावान्तरकिट्टिरप्राप्ता भवति । नवरमुभयचयदलमनन्ततमभागेनहीनं प्रक्षिपति, बन्धचयवन्धमध्यमखण्डरूपेण तावदलस्य प्रक्षेपात् ।
___ ततो लोभक्तिीयसंग्रहकिट्टिप्रथमवन्धाऽपूर्वावान्तरकिट्टी बन्धदलत एकं बन्धाऽपूर्वावान्तरकिट्टिपमानखण्डं लोभत्तीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टिप्रभृतिव्यतिक्रान्तपूर्वापूर्वावान्तरकिट्टिराशिन्यूनबादरसर्वपूर्वापूर्वाऽवान्तरकिट्टिराशिप्रमाणान् बन्धाऽपूर्वावान्तरकिट्टिचयान् लोभद्वितीयसंग्रहकिट्टिवन्धप्रथमपूर्वाध्यान्तरकिट्टिप्रभृतिव्यतिक्रान्तबन्धपूर्वाऽवान्तरकिट्टिराशिन्यूनबन्धसर्वपूर्वापूर्वावान्तरकिट्टिराशिमप्राणान् बन्धवयाने च बन्धमध्यमखण्डं ददाति । घातदलतस्तु तस्यां दलं न प्रक्षिपति । इत्थं प्राक्तनपूर्वावान्तरकिटौ दीपमानबन्धदलतोऽस्यामपूर्वावान्तरकिट्टौ दीयमानवन्धदलमनन्तगुणं भवति, बन्धचय-बन्धमध्यमखण्डदलतो बन्धाऽपूर्वावान्तरकिट्टिचयबन्धाऽपूर्वावान्तरकिट्टिसमानखण्डदलस्याऽनन्तगुणत्वात् ।
ततः परमनन्तरायां पूर्वावान्तरकिट्टौ घातदलतो बादरप्रथमपूर्वाऽवान्तरकिट्टिप्रभृतिव्यतिक्रान्तपूर्वाऽवान्तरफिट्टिराशिप्रमाणाऽधस्तनशीर्षचयांस्तथाऽनन्ततमभागेन हीनं बादरप्रथमपूर्वावान्तरकिट्टिप्रभृतिव्यतिक्रान्तवादरपूर्वापूर्वावान्तरकिट्टिराशिन्यूनवादरसर्वपूर्वापूर्वावान्तरकिट्टिराशिप्रमाणोभयचयदलमेकं च मध्यमखण्डं प्रक्षिपति । बन्धदलतः पुनरेकं बन्धमध्यमखण्डं बन्धप्रथमपूर्वावान्तरकिट्टिप्रभृतिव्यतिक्रान्तवन्धपूर्वापूर्वावान्तरकिट्टिराशिन्यूनवन्धसर्वपूर्वापूर्वावान्तरकिट्टिराशिप्रमाणान् बन्धचयान् प्रक्षिपति । इत्थं प्राक्तनबन्धापूर्वावान्तरकिट्टौ निक्षिप्तदलतोऽस्यां पूर्वावान्तरकिट्टी निक्षिप्यमाणबन्धदलमनन्तगुणहीनं भवति, बन्धचय-बन्धमध्यमखण्डदलस्य बन्धापूर्वावान्तरकिट्टिचय-बन्धापूर्वावान्तरकिट्टिसमानदलतोऽनन्तगुणहीनत्वात् ।
ततः परं घातदलत एकोत्तरहान्योभयचयानेकोत्तरवृद्धयाऽधस्तनशीर्षचयानेकैकं च मध्यमखण्डं बन्धदलतः पुनरेकोत्तरहान्या बन्धचयानेकैकं च बन्धमध्यमखण्डं तावद् ददाति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org