________________
३७६ ]
खवगस्खेढी
[ गाथा--१९६ यते । तस्यां च लोभद्वितीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टित आरभ्य पश्चानुपूा यतिसंख्याका लोभद्वितीयसंग्रहकिट्टिबन्धचरमाऽपूर्वाऽवान्तरकिर्भिवति, तत्संख्याका बन्धाऽपूर्वाऽवान्तरकिट्टिचयाः प्रक्षेपणीयाः । ततः पुनरसंख्यातपल्योपमप्रथमवर्गमूलप्रमाणासु पूर्वावान्तरकिट्टिषु गतासु द्विचरमबन्धापूर्वावान्तरकिट्टिर्निर्वय॑ते, तत्र बन्धचरमाऽपूर्वावान्तरकिट्टितोऽसंख्यातपल्योपमप्रथमवर्गमूलराशिप्रमाणैर्वन्धापूर्वावान्तरकिट्टिचयैरधिका बन्धाऽपूर्वावान्तरकिट्टिचयाः प्रक्षेप्तव्याः । एवं पश्चानुपूर्व्या बन्धाऽपूर्वावान्तरकियामसंख्यातपल्योपमप्रथमवर्गमूलप्रमाणैरधिका अधिकतरा बन्धाऽपूर्वावान्तरकिट्टिचयास्तावद् दातव्याः, यावद् बन्धप्रथमाऽपूर्वावान्तरकिट्टिः । एते च निक्षिप्यमाणाः सर्वे बन्धापूर्वाऽवान्तरकिट्टिचयाः "व्येकपदनचयो मुखयुक् स्यादन्त्यधनं मुखयुक् दलितं तत् । मध्यधनं पदसंगुणितं तत्सर्वधनं गणितं च तदुक्तम् ।" इति करणसूत्रेण सङ्कलयितव्याः । मुखमादिधनम् , तच्चात्र लोभद्वितीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टिप्रभृतिबन्धप्रथमाऽपूर्वावान्तरकिट्टिपर्यवसानाऽवान्तरकिट्टिराशिप्रमाणा बन्धापूर्वाऽवान्तरकिट्टिचयाः, चयश्चाऽसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणबन्धापूर्वाऽवान्तरकिट्टिचयाः । पदं पुनर्लोभद्वितीयसंग्रहकिट्टिबन्धाऽपूर्वाऽवान्तरकिट्टिराशिज्ञातव्यम् । न्यास:
अन्त्यधनम् = ( पदम् - १) x चयः + आदिधनम् ।
मध्यधनम् = अन्त्यधनम् + आदिधनम। .:. लोभद्वितीयसंग्रहकिट्टिसर्वबन्धापूर्वावान्तरकिट्टिचयाः = मध्यधनम् x पदम् ।
लोभद्वितीयसंग्रहकिट्टयाः सर्वन्धापूर्वाऽवान्तरकिट्टिचयैरेकबन्धापूर्वाऽवान्तरकिट्टिचयदलं गुण्यते, तदा लोभद्वितीयसंग्रहकिट्टेः सर्ववन्धाऽपूर्वाऽवान्तरकिट्टिचयदलं प्राप्यते ।
(३) बन्धचयदलम्-बन्धाऽपूर्वावान्तरकिट्टिसमानखण्डदलं बन्धापूर्वाऽवान्तरकिट्टिचयदलं च बन्धदलतो विशोध्य शेषं बन्धदलं पदेन विभजनीयम् । विभक्त च मध्यमदलं प्राप्यते । तदप्यीकृतैकोनपदन्यूनाभ्यां द्वाभ्यां द्विगुणहानिभ्यां विभज्यते, तदैकबन्धचयगतदलं प्राप्यते । पदं त्वत्र लोभद्वितीयसंग्रहकिट्टिबन्धपूर्वापूर्वावान्तरकिट्टिराशिफ़्तव्यम् । इह लोभद्वितीयसंग्रहकिटेर्बन्धचरमावान्तरकिट्टावेकं बन्धचयं ददाति, बन्धद्विचरमावान्तरकिट्टी द्वौ बन्धचयौ ददाति, एवं पश्चानुपूव्यकोत्तरवृद्धथा बन्धपूर्वापूर्वावान्तरकिट्टिषु तावद् ददाति, यावल्लोभद्वितीयसंग्रहकिट्टिबन्धजघन्यपूर्वावान्तरकिट्टिः । ते च बन्धचयाः “सैकपदन्नपदार्धमथैकाद्यङ्ग्युतिः किल सङ्कलिताख्या" इति गणितसूत्रेण संकलयितव्याः । पदं त्वत्र लोभद्वितीयसंग्रहकिट्टिबन्धपूर्वापूर्वावान्तरकिट्टिराशिर्बोध्यम् । एकबन्धचयदलं सर्वबन्धचयैगुण्यते, तदा सर्वबन्धचयदलं प्राप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org