________________
गणितरीत्या सूक्ष्मवादरकिट्टिषु दलनिक्षेपः ] किट्टिवेदनाद्धाधिकारः
[ ३७७ (४) बन्धमध्यमखण्डम्-बन्धदलतः पूर्वोक्तबन्धदलत्रयं विशोध्य शेषबन्धदलं बन्धपूर्वाऽपूर्वावान्तरकिट्टिराशिना विभज्यते, तदैकं बन्धमध्यमखण्डं लभ्यते । तच्चैकैकं बन्धमध्यमखण्डं बन्धपूर्वापूर्व रावान्तरकिट्टिष्वविशेषेण दातव्यम् ।
वध्यमानपूर्वावान्तरकिट्टिषु येनाऽनन्ततमभागेन हीनं संक्रमोभयचयदलं बध्यमानाऽपूर्वावान्तरकिट्टिपु चोभयचयापेक्षया येनानन्ततमभागेन हीनं बन्धाऽपूर्वावान्तरकिट्टिचयदलं प्रक्षिप्यत, सोऽनन्ततमभागो वन्धमध्यमखण्ड़े यथायोग्यं च बन्धचयदले प्रक्षिप्ते परिपूर्यते ।
अथ सूक्ष्मकिटिषु लोभसंग्रहकिद्रिये च दीयमानदलविधिर्भण्यते
सूक्ष्मकिट्टिकरणाद्धाप्रथमसमये प्रथमसूक्ष्मकिट्टयामेकं सूक्ष्मकिट्टिसमानखण्डं सूक्ष्मकिट्टिराशिप्रमाणांश्च सूक्ष्मकिट्टिचयान् ददाति । इदं च दीयमानं दलं सर्वप्रभूतं भवति । ततः परं द्वितीयसूक्ष्मकिट्टयामेकं सूक्ष्मकिट्टिसमानखण्डमेकोनसूक्ष्मकिट्टिराशिप्रमाणांश्च समकिट्टिचयान् ददाति । इत्थं प्रथमसूक्ष्मकिट्टितोऽस्यां दीयमानं दलमेकसूक्ष्मकिट्टिचयेन हीनं भवति, सक्ष्मफिट्टिचयस्याऽनन्ततमभागमात्रत्वादनन्ततमभागेन हीनं दीयमानदलं भवति । ततः परमुत्तरोत्तरसूक्ष्मकिट्टावेक सूक्ष्मकिट्टिसमानखण्डमेकोत्तरहान्या च सूक्ष्मकिट्टिचयाँस्तावद् ददाति, यावचरमसूक्ष्मकिट्टिः । एकसूक्ष्मकिट्टिचयस्याऽनन्ततमभागमात्रत्वादुत्तरोत्तरसूक्ष्मकिट्टी दीयमानं दलमनन्तभागेन हीनं भवति । इत्थं सूक्ष्मकिट्टितया परिणमनाय गृहीतदलं परिसमाप्तं भवति । ___ अथ लोभतृतीयसंग्रहकिटि-चरमसूक्ष्मकिट्टित ऊचं बादरजघन्यकिट्टिस्वरूपायां लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वाधान्तरकिट्टो संक्रमदलत एकं मध्यमखण्डं बादरपूर्वाऽपूर्वाऽवान्तरकिट्टिराशिप्रमाणांश्चोभयचयान् ददाति । इदं च दीयमानं दलं चरमसूक्ष्मकिट्टी दीयमानदलतो-:संख्यातगुणहीनं भवति, सूक्ष्मकिट्टिसमानखण्डतो मध्यमखण्डस्या-ऽसंख्येयगुणहीनत्वादुभयचयदलस्या चाऽनन्ततमभागमात्रत्वेनाऽकिश्चित्करत्वात् ।
___ ततो लोभतृतीयसंग्रहकिट्टिद्वितीयपूर्वावान्तरकिट्टावेकाऽधस्तनशीर्षचयदलमेकोनबादरपूर्वापूर्वावान्तरकिट्टिप्रमाणानुभचयानेकं च मध्यमखण्डं ददाति । इत्थं लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वाऽवान्ताकिट्टितो लोभतृतीयसंग्रहकिट्टिद्वितीयपूर्वावान्तरकिट्टी दीयमानदलमेकाऽधस्तनशीर्षचयेनाधिकमकोभयचयदलेन च हीनं भवति । तेन लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वाऽवान्तरकिट्टितो लोभतृतीयसंग्रहकिट्टिद्वितीयपूर्वावान्तरकिट्टौ दीयमानदलमेकाऽधस्तनशीपचयदलन्यूनैकोभयचयदलेन हीनं भवति । अधस्तनशीर्षचयदलस्योभयचयदलतो हीनत्वाल्लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टितो लोभतृतीयसंग्रहकिट्टिद्वितीयपूर्वावान्तरकिट्टौ दलमनन्ततमभागेन हीनं ददातीति सिध्यति । एवमग्रेऽपि भावनीयम् । लोभतृतीयसंग्रहकिट्टिद्वितीयपूर्वावान्तरकिट्टितः परमेकोत्तरवृद्धयाऽधस्तनशीर्षचयानेकोत्तरहान्योभयचयानेकैकं च मध्यमखण्डं तावत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org