________________
अधस्तनशीर्षचयादिदलम् ]
किदिवेदनाद्धाधिकारः
[ ३७३
न्यास:
तृतीयसंग्रइकिट्टेः सर्वेऽधस्तनशीर्षचयाः = (पदम् + १) ४ । तृतीयसंग्रहकट्टिसविस्तनशीपचयदलम् :- सविस्तनशीर्षचयाः एकाधस्तनशीर्षचयदलम्
ततो लोभद्वितीयसंग्रहकिट्टिप्रथमावान्तरकिट्टौ लोभतृतीयसंग्रहकिट्टिपूर्वाऽवान्तरकिट्टिराशिप्रमाणांश्चयान् प्रक्षिपति । ततो लोभद्वितीयसंग्रहकिट्टिद्वितीयावान्तरकियामेकाधिकान् लोभतृतीयसंग्रहकिट्टिपूर्वावान्तरकिट्टिराशिप्रमाणांश्चयान् प्रक्षिपति, एवमेकोत्तरवृद्ध्या तावत्प्रक्षिपति, यावल्लोभद्वितीयसंग्रहकिट्टिचरमावान्तरकिट्टिः । अनेन क्रमेण लोभद्वितीयसंग्रहकिट्टी दीपमानाश्चयाः "व्येकपदनचयो मुखयुक् स्यादन्त्यधनं मुखयुग्दलितं तत् । मध्यधनं पदसंगुणितं तत् सर्वधनं गणितं च तदुक्तम् ।" इति गणितकरणसूत्रेण सङ्कलयितव्याः । अत्र मुखम्= आदिधनम् , तच्च लोभतृतीसंग्रहकिट्टिपूर्वावान्तरकिद्विराशिप्रमाणाश्चयाः। चयश्चैको ज्ञातव्यः, एकोत्तरवृद्धिदर्शनात् । पदं तु लोभद्वितीयसंग्रहकिट्टिपूर्वावान्तरकिट्टिराशिर्बोध्यम् । न्यास:अन्त्यधनम् = (पदम् - १) x चयः + आदिधनम्
अन्त्यधनम् + आदिधनम मध्यधनम् =
र .:. लोनद्वितीयसंग्रहकिट्टेः सर्वेऽधस्तनशीपचयाः = मध्यधनम् ४ पदम्
द्वितीयसंग्रहकिट्टिसर्वाऽधस्तनशीचयैरेकाऽधस्तनशीचियदलं गुण्यते, तदा लोभद्वितीयसंग्रहफिट्टिसकलाऽधस्तनशीर्षचयदलं प्राप्यते । तच्च घातदलतो दातु पृथक्स्थापयितव्यम् ।
(२) अपूर्वावान्तरकिट्टिदलम्-लोभतृतीयसंग्रहकिटटेरवान्तरकिट्टयन्तरेषु या अपूर्वावान्तरकिट्टयो निर्वय॑न्ते, तातामेकैकस्यामपूर्वावान्तरकिट्टो लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टिगतप्रदेशतुल्यं दलिकं प्रक्षेप्तव्यम् , त चै काऽपूर्वावान्तरकिट्टिदलमुच्यते । तत्पुनर्लोभतृतीयसंग्रहकिट्टेरपूर्वावान्तरकिट्टिराशिना गुण्यते, तदा लोमतृतीयसंग्रहकिट्टिसर्वाऽपूर्वावान्तरकिट्टिदलं प्राप्यते । तच्च तृतीयसंग्रहकिट्टो संक्रमेण प्राप्यमाणदलतो दातुं पृथक्स्थापयितव्यम् । अपूर्वाऽवान्तरकिटीनाश्च राशिलाभतृतीयसंग्रहकिट्टिपूर्वाऽवान्तरकिट्टी नामसंख्येवमागप्रमाणो ज्ञातव्यः, पल्योपमप्रथमवर्गमूलासंख्येयभागमात्रीषु पूर्वावान्तरकिट्टिषु ब्रजितास्वेकैकस्या अपूर्वावान्तरकिटेनित्तेः ।
(३) उभयचयदलम्-पूर्वोक्तदल ये यथायोग्यं प्रक्षिप्ते सर्वपूर्वाऽपूर्वावान्तरकिट्टयः समानदलिका जायन्ते । तासां दलिकं गोपुच्छाकारं कर्तुं लोभद्वितीयसंग्रहकिटेश्वरमावान्तरकिट्टावेकं चयं प्रक्षिपति । द्विचरमावान्तरकिट्टी द्वौ चयौ प्रक्षिपति । एवंक्रमण पश्चानुपूर्त्या लोभत्तीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टो पूर्वापूर्वावान्तरकिट्टिराशिप्रमाणांश्चयान् प्रक्षिपति । प्रक्षिप्यमाणचयाथोभयचया उच्यन्ते । सूक्ष्मकिट्टितया परिणम्यमानं मोहनीयदलिकं वर्जयित्वा शेष मोहनीयसत्तागत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org