________________
३६४ ]
खवगसेढी
[ गाथा-१९३.१९४ 'सुहुमासु' इत्यादि, 'सूक्ष्मासु' सूक्ष्मकिट्टिषु 'तृतीयातः' लोभतृतीयसंग्रहकिट्टितो 'अल्प' स्तोकं 'दलं' प्रदेशाग्रमपवर्तनासंक्रमेण संक्रामति । ततः 'बोयाउ' इत्यादि, 'द्वितीयातः' लोभद्वितीयसंग्रह किट्टितः 'तृतीयस्यां' लोभतृतीयसंग्रहकिट्टौ संख्यगुणं दलं संक्रामति, लोभतृतीयसंग्रहकिट्टिदलतो द्वितीयसंग्रहकिट्टिदलस्य त्रयोविंशतिगुणत्वेन संख्येयगुणत्वात् । 'तो' इत्यादि, ततो 'द्वितीयातो' लोभद्वितीयसंग्रहकिट्टितः 'सूक्ष्मासु' सूक्ष्मकिट्टिषु संख्येयगुणं दलं संक्रामति, लोद्वितीयसंग्रहकिट्टितोऽनन्तरवेद्यमानत्वेन तत्र संख्येयगुणदलसंक्रमस्य न्याय्यत्वात् । न्यगादि च कषायमाभृतचूर्णौ-"सुहमसांपराइकिट्टीसु कीरमाणीसु लोभस्स चरिमादो बादरसांपराइयकिट्टीदो सुहुसांपराइयकिट्टीए संकमदि पदेसग्गं थोवं । लोभस्स विदियकिटोदो चरिमबादरसांपराइयकिट्टीए संकमदि पदेसरगं संखेजगुणं । लोभस्स विदियकिट्टीदो सुहुमसांपराइयकिटोए संकमदि पदेसग्गं संखेजगुणं ।" इति । पश्यन्तु पाठका यन्त्रकम्-२४ ॥१९२॥
अथ सूक्ष्मकिट्टीनां प्रमाणं जिज्ञापयिपुरल्पबहुत्वं भणतिथोवा आसि अवन्तरकिट्टी कोहपढमाअ कोहखये । माणपढमाअ माणे खीगे मायापढमगाए ॥१९३॥ मायाणासे लोहपढमाअ पढमखणकयसुहुमकिट्टी। कमसो अभहिआओ सगसंखेज्जइमभागेणं ॥१९४॥ स्तोका आसन्नवान्तरकिट्टयः क्रोधप्रथमायाः क्रोवक्षये । मानप्रथमाया माने क्षीणे मायाप्रथमायाः ॥१९३।। मायानाशे लोभप्रथमायाः प्रथमक्षणकृतसूक्ष्मकिट्टयः ।
क्रमशोऽभ्यधिकाः स्वसंख्येयतमभागेन ॥१९४।। इति पदसंस्कारः । 'थोवा' इत्यादि, तत्र 'क्रोप्रथमायाः' क्रोधप्रथमसंग्रहकिट्टरवान्तरकिट्टयः स्तोका आसन् । 'अवन्तरकिट्टी ति पदमग्रेऽपि स्थानत्रयेऽनुवर्तते । 'क्रोवक्षये' संज्वलनक्रोवतृतीयसंग्रहकिटटेर्मानप्रथमसंग्रहकिट्टितया परिणामे सति 'मानप्रथमायाः' मानप्रथमसंग्रहकिटेरवान्तरकिट्टयः, 'माणे इत्यादि, 'माने' मानतृतीयसंग्रहकिट्टी 'क्षीणे' मायाप्रथमसंग्रहकिट्टितया परिणतायां 'मायाप्रथमायाः' मायाप्रथमसंग्रहकिटटेरवान्तरकिट्टयः, 'मायानाशे' मायातृतीयसंग्रहकिटेर्लोभप्रथमसंग्रहकिट्टितया परिणमने सति 'लोभप्रथमायाः' लोभप्रथमसंग्रहकिट्टरवान्तरकिट्टयः, 'प्रथमक्षणकृतसूक्ष्मकिट्टयः' सूक्ष्मकिट्टिकरणाद्धाप्रथमसमयनिर्तितसक्ष्मकिट्टयश्च 'क्रमशः' यथाक्रमं स्वसंख्येयतमभागेनाऽभ्यधिकाः । यदवादि कषायप्राभृतचूर्णी“कोहस्स पढमसंगहकिटीए अंतरकिटोओ थोवाओ, कोहे संछुद्धे माणस्स पढम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org