SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मकिट्टिकरणाद्धायां संक्रम्यमाणदलम् ] किट्टिवेदनाद्धाधिकारः [ ३६३ क्रोधप्रथमसंग्रहकिट्टिवत् 'प्रज्ञप्ताः' निरूपिताः पूर्वमहर्षिभिरिति शेषः । प्रतिपादितं च कषायप्राभूतचूर्णी-"जारिसो कोहस्स पढमसंगहकिट्टी, तारिसी एसा सुहुमसांपराइयकिट्टी।" इति । भावार्थः पुनरयम्-(१) यथा क्रोधप्रथमसंग्रहकिट्टरवान्तरकिट्टय इतरसंग्रहकिट्टीनां प्रत्येकमवान्तरकिट्टिभ्यः संख्यातगुणा आसन् , तथैव क्रोधकिट्टिवेदनाद्धाप्रथमसमयवर्तिनीभ्यः क्रोधप्रथमसंग्रहकिट्टिवर्जशेषसंग्रहकिट्टीनां प्रत्येकमवान्तरकिट्टिभ्यः संख्यातगुणाः सूक्ष्मकिट्टयो भवन्ति । इत्थं सूक्ष्मकिट्टीनां प्रमाणं “कोहपढमसंगहकिट्टिव्व” इत्यनेन सूचितमिति प्रथमो विकल्पः । (२) अथवा यथा क्रोधप्रथमसंग्रहकिट्टिरपूर्वस्पर्धकानामधस्तादनुभागापेक्षयाऽनन्तगुणहीना क्रियते स्म, तथैव लोभतृतीयसंग्रहकिटेरधस्तादनुभागापेक्षयाऽनन्तगुणहीनाः सूक्ष्मकिट्टयः क्रियन्त इति द्वितीको विकल्पः। (३) यदिवा यथा क्रोधप्रथमसंग्रहकियवान्तरकिट्टयो जघन्यावान्तरकिट्टितः प्रभृत्युत्कृष्टावान्तरकिट्टि यावदनुभागापेक्षयाऽनन्तगुणक्रमेण तिष्ठन्ति स्म, तथैव सूक्ष्मकिट्टयोऽपि जघन्यसूक्ष्मकिट्टितः प्रभृत्युत्कृष्टसूक्ष्मकिट्टि याघदनुभागाऽपेक्षयाऽनन्तगुणक्रमेण विद्यन्त इति तृतीयो विकल्पः ॥१९॥ अथ सूक्ष्मकिट्टिकरणाद्धायां संक्रमपरिपाटिं दर्शयितुकाम आहलोहस्स विइयकिट्टित्तो तइयाअ तह सुहुमकिट्टीसु। तइयत्तो सुहुमासुसंकमइ दलं न अण्णत्थ ॥१९१॥ लोभस्य द्वितीयकिट्टितस्तृतीयस्यां तथा सूक्ष्मकिट्टिषु । तृतीयातः सूक्ष्मासु संक्रामति दलं नाऽन्यत्र ॥१९१।। इति पदसंस्कारः । . 'लोहस्स' इत्यादि, लोभस्य' संज्वलनलोभस्य द्वितीयकिट्टितो' द्वितीयसंग्रहकिट्टितो 'दलं' प्रदेशाग्रं संज्वलनलोभस्य 'तृतीयस्यां' तृतीयसंग्रहकिट्टी तथा सूक्ष्मकिट्टिषु संक्रामति । 'तइयत्तो' इत्यादि, 'तृतीयातो' लोभतृतीयसंग्रहकिट्टितो सूक्ष्मासु किट्टिषु दलं संक्रामति, नाऽन्यत्र, आनुपूर्व्या संक्रमस्य प्रवर्तमानत्वात् किट्टिवेदनाद्धायां चोद्वर्तनाऽभावात् ॥१९१॥ अथ संक्रम्यमाणप्रदेशाग्रस्याऽल्पबहुत्वं व्याजिहीर्घ राहसुहुमासु तइयत्तोऽप्पं बीयाउ तइयाअ संखगुणं । तो बीयत्तो सुहुमासु दलं संकमइ संखगुणं ॥ १९२ ॥ सूक्ष्मासु तृतीयातोऽल्पं द्वितीयस्यास्तृतीयस्यां संख्यगुणम् । ततो द्वितीयातः सूक्ष्मासु दलं संक्रामति सङ्ख्यगुणम् ॥१९२।। इति पदसंस्कारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy