________________
खवगसेढी
३६२ ]
[गाथा--१९० समयादारभ्य स्ववेदनकालत आवलिकयाऽधिकासु स्थितिष्वसंख्येयगुणक्रमेण निक्षिपन् 'प्रथमस्थिति' लोभद्वितीयसंग्रहकिट्टेः प्रथमस्थितिं तु 'करोति' निर्वर्तयति । उक्त च कषायप्राभूतचूर्णी-"तत्तो से काले लोभस्स विदियकिट्टीदो पदेसग्गमोकड्डियूण पढमठिदि करेदि।" इति । तथैव सप्ततिकाचूर्णावपि-"तओ से काले लोभस्स बितियकिट्टीओ दलिअं ओकढित्तु पढमट्ठितिं करेइ बीयतिभागमे ।" इति ।
'वेयइत्ति 'वेदयति. तदानीमेव च लोभद्वितीयसंग्रहकिटटेः प्रथमस्थितिमनुभवति । इयं च द्वितीयसंग्रहकिट्टिवेदनाद्धा सूक्ष्मकिट्टिकरणाद्धाऽप्युच्यते, अस्यां सूक्ष्मकिट्टीनां निवृत्तेः ।
अथ सूक्ष्मकिट्टिनिवृत्तिं दर्शयति-'ताहे' इत्यादि, 'तस्मिन् काले' लोभद्वितीयसंग्रहकिट्टिवेदनप्रथमसमय एव 'लोभद्वितीयातृतीयाभ्यां' लोभद्वितीयसंग्रहकिट्टितो लोभतृतीयसंग्रहकिट्टितथाऽसंख्येयभागप्रमितं दलिकं गृहीत्वा सूक्ष्मकिट्टीः 'करोति' निर्वर्तयति, अन्यथा तृतीये त्रिभागे सूक्ष्मकिट्टिवेदनं नोपपद्येत । न च लोभतृतीयसंग्रहकिट्टिवेदनाद्धायां सूक्ष्मकिट्टिकरणं प्रतिपाद्यतामिति वाच्यम् , लोभतृतीयसंग्रहकिटेः स्वस्वरूपेणाऽनुदयात् । उक्तं च कषायप्राभतचूर्णी-"ताधे चेव लोभस्स विदियकिट्टीदो च तदियकिटोदो च पदेसग्गमोकड्डियूण सुहुमसापराइयकिट्टीओ णाम करेदि ।" इति । तथैव सप्ततिकाचूर्णावपि-"तं वेयंतो वितियकिटीओ तइअकिटीओ य दलियं घेत्तणं सुहमसंपराइयकिटोओ करेइ ।" इति ॥ १८९ ॥
ननु ताः सूक्ष्मकिट्टीः कुत्र कथं च करोति ? इति पृष्ट आहसुहुमा किट्टीओ तइयाए हे?म्मि कुणइ खलु खवगो । ता सुहुमा कोहपढमसंगहकिट्टिब्व पण्णता ॥१९०॥
सूक्ष्माः किट्टीस्तृतीयस्या अधस्तात्करोति खलु क्षपकः ।। ताः सूक्ष्माः क्रोधप्रथमसंग्रहकिट्टिवन् प्रज्ञप्ताः ॥१९०।। इति पदसंस्कारः ।
'सुहमा'इत्यादि, तत्र ‘खवगो' त्ति 'क्षपक' क्षपकश्रेणिमारूढो जीवो लोभद्वितीयसंग्रहकिyि वेदयमानः खलु सूक्ष्माः किट्टीः 'तृतीयस्याः' लोभतृतीयसंग्रहकिटेरधस्तात् करोति, लोभतृतीयसंग्रहकिट्टेः सर्वजधन्यावान्तरकिटेरधस्तादनन्तगुणहीनरसतामापाद्य सूक्ष्मकिट्टीनां सर्वोत्कृष्टां सूक्ष्मकिट्टि निर्वर्तयति, ततोऽधस्ताद् द्विचरमसूक्ष्मकिट्टिम् , ततोऽप्यधस्तात् त्रिचरमसूक्ष्मकिट्टिम्, एवं तावद् निर्वर्तयति, यावत् प्रथमसूक्ष्मकिट्टिरिति तात्पर्यम् । उक्तं च कषायप्राभतचूर्णी-"तासि सुहुमसांपराइयकिट्टीणं कम्हि हाणं ? तार्सि हाणं लोभस्स तदियाए संगहकिटीए हेह्रदो।" इति ।
'ता' इत्यादि, 'ताः' लोभतृतीयसंग्रहकिट्टेधस्ताद् निर्वय॑मानाः 'सूक्ष्माः' सूक्ष्मकिट्टयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org