________________
लोभप्रथमसंग्रहकिट्टिवेदनविधिः ] किट्टिवेदनाद्धाधिकारः
[ ३५९ निक्षिपन् 'प्रथमस्थिति' संज्वलनलोभप्रथमसंग्रहकिटेरादिमस्थितिं करोति । अवादि च कषायप्राभृतचूर्णी-"तदो से काले लोभस्स पढमकिटीदो पदेसग्गमोकड्डियूण पढमहिदि करेदि ।" इति
'वेयइ य' त्ति 'वेदयति च' तदानीमेव लोभप्रथमसंग्रहकिट्टिमनुभवति च । यदुक्तं सप्ततिकाचूर्णी-"तओ से काले लोभस्स पढमकिटीओ दलियं ओकढित्तु पढमठितिं करेइ अंतोमुहत्तप्पमाणमेनं, तं च लोभवेयगडाए तिभागो वेदेइ य।" इति । तदानीं प्रथमस्थितावुदयावलिगतं यद् मायातृतीयसंग्रहकिट्टिदलं विद्यते, तत् प्रतिसमयं संज्वलनलोभे स्तिबुकसंक्रमेण संक्रम्य विनाशयति । द्वितीयस्थितौ च द्विसमयोनाऽऽवलिकाद्वयेन बद्धं यद् मायातृतीयसंग्रहकिट्टिदलं विद्यते, तत् तावता कालेन पुरुषवेदवत् संक्रमयता जन्तुना चरमप्रक्षेपेऽसंक्रम्यमाणे संज्वलनमायाया जघन्यस्थितिसचं जघन्याऽनुभागमचं च, तथा जघन्ययोगिना बद्धनूतनदलिकस्य जघन्यप्रदेशसत्कर्म प्राप्यते । तदानीं च चरमप्रक्षेपे संक्रम्यमाणे संज्वलनमायाया जघन्यस्थितिसंक्रमो जघन्यश्चानुभागसंक्रमो भवति । कर्मप्रकृतिचूर्णिकारादोनामभिप्रायेण मायोदयचरमसमये जघन्ययोगिना जन्तुना बद्धनूतनमायादलिकस्य तदानीं जघन्यप्रदेशसंक्रमोऽपि जायते ।।
शेषसर्वविधिः पूर्ववद् वेदितव्यः, नवरं लोभस्यैव प्रथमसंग्रहकिट्टिबध्यते, अवान्तरकिट्टयल्पबहत्वं प्रदेशाऽल्पबहुत्वञ्च त्रिपदकं वक्तव्यम्, तत्राऽपि लोभतृतीयसंग्रहकिट्टितोलोभप्रथमसंग्रहकिट्टीनामवान्तरकिट्टयः प्रदेशाश्च संख्यातगुणा भवन्ति । ___ एवंविधानेन लोभप्रथमसंग्रहकिट्टेः प्रथमस्थितौ द्वयावलिकाशेषायामागालो व्यवच्छिद्यते । ततः समथोनावलिकायां गतायां प्रथमस्थितेः समयाधिकावलिकायां शेषायां संज्वलनलोभस्य जघन्यस्थित्युदीरणा भवति, तदानीं च लोभप्रथमसंग्रहकिटेश्वरमोदयः ॥१८६॥
अथ लोभप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमये सप्तानामपि कर्मणां स्थितिबन्धं मोहस्य च स्थितिसचं निजिगदिषुराह
चरिमे बंधो लोहस्स मुहुत्तो तहेव संतं वि । बंधो घाईण दिणपुहुत्तमघाईण वच्छरपुहुत्तं ॥१८७॥ (गीतिः). चरमे बन्धो लोभस्य मुहूर्तान्तस्तथैव सत्त्वमपि । बन्धो घातिनां दिनपृथक्त्वमघातिनां वत्सरपृथक्त्वम् ।।१८७।। इति पदसंस्कारः ।
'चरिमे' इत्यादि, 'चरमे' लोभप्रथमसंग्रहकिट्टिवेदनाद्धायाश्चरमसमये 'लोभस्य' संज्वलनलोभस्य 'बन्धः' स्थितिबन्धो 'मुहूर्तान्तः' अन्तर्मुहूर्तं भवति । मायातृतीयसंग्रह किट्टिवेदनाद्धाचरमसमये यः स्थितिबन्धः पञ्चदशदिवसप्रमाण आसीत् , स क्रमेण हीनो भवन् सम्प्रत्यन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org