________________
खवगसेढी
३६०
[ गाथा-१८८ मुहूर्तप्रमितो जायत इत्यर्थः । 'तहेव' इत्यादि, 'तथैव सचमपि' लोभस्य स्थितिसत्त्वमपि स्थितिबन्धवदन्तमुहूर्तप्रमाणं भवति । अभिहितं च कषायप्राभूतचूर्णी-"ताधे लोभसंजलणस्स ठिदिबंधो अंतोमुहुत्तं । हिदिसंतकम्मं पि अंतोमुहुत्तं ।" इति । इदमत्राऽवधेयम्-उभयोरन्तमुहूर्तमात्रत्वेऽपि स्थितिबन्धतः स्थितिसत्त्वं संख्येयगुणं भवति ।
'बंधो' इत्यादि, तत्र 'घातिना' मोहनीयस्योक्तत्वाज्ज्ञानावरण-दर्शनावरणाऽन्तराषाणां 'बन्धः' स्थितिबन्धो दिनपृथक्त्वं लोभप्रथमसंग्रहकिट्टिवेदनचरमसमये भवति, यो मायातृतीयसंग्रहकिट्टिवेदनाद्धाचरमसमये मासपथक्त्वप्रमित आसीत् । 'अघातिनां' नामगोत्रवेदनीयानां स्थितिवन्धो 'वत्सरपृथक्त्वं' वर्षपृथक्त्वं भवति, यो मायातृतीयसंग्रहकिट्टिवेदनाद्धाचरमसमये तत्प्रायोग्यसंख्येयवर्षप्रमाण आसीत् । उक्तं च कषायप्राभतचूर्णी-"ताधे लोभसंजलणस्स ठिदिबंधो अंतोमुहुत्तं । तिण्हं घादिकम्माणं ठिदिबंधो दिवसपुधत्तं । सेसाणं कम्माणं वासपुधत्तं ।" इति ॥१८७॥
मोहनीयस्य स्थितिसत्त्वमुक्तम् । अथ षण्णां कर्मणां स्थितिसचं प्रदर्शयितुकाम आह
घाईणं संतं संखसहम्साणि वरिसाण होज्जेइ । तिण्ह अघाईण असंखेजाइं वच्छराणि खलु ॥१८८॥ घातिनां सत्त्वं संख्यसहस्राणि वर्षाणां भवति ।
त्रयाणामघातिनामसंख्येयानि वत्सराणि खलु ॥१८८।। इति पदसंस्कारः ।
'घाईणं' इत्यादि, लोभप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमये 'घातिनां' ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणां कर्मणां 'सर्च' स्थितिसचं वर्षाणां संख्यसहस्राणि भवति, पूर्वमपि मायावेदनाद्धाचरमसमये ज्ञानावरणादीनां स्थितिसचं संख्येयवर्षसहस्रमात्रमासीत् , ततोऽन्तमुहूर्तप्रमाणायां लोभप्रथमसंग्रहकिट्टिवेदनाद्धायां गतायां संख्येयगुणहीनं भवदपि संख्येयवर्षसहसत्रमाणं विद्यत इत्यर्थः । 'तिण्ह' इत्यादि, लोभप्रथमसंग्रह किट्टिवेदनाद्धाचरमसमये त्रयाणामघातिनां कर्मणां नामगोत्रवेदनीयलक्षणानां स्थितिसचं खल्पसंख्येयानि 'वत्सराणि' वर्षाणि भवति, सुगममिदम् । यत् प्रतिपादितं कषायप्राभृतचूर्णी-“घादिकम्माणं ठिदिसंतकम्म संखेन्जाणि वस्ससहस्साणि, सेसाणं कम्माणमसंखेजाणि वस्साणि ।" इति ।
___ तदानीमेवोदयसमयाधिकालिकागतं समयोनद्वथावलिकाबद्धं च नूतनं दलं विहाय शेष लोभप्रथमसंग्रहकिट्टिदलं गृहीत्वा ततश्च यथायोग्यमन्यत्र किश्चिद्दलं संक्रम्य शेवसर्वदलं लोभद्वितीयसंग्रहकिटेरधस्तादपूर्वावान्तरकिट्टितया संक्रमयति । इत्थं लोभद्वितीयसंग्रहकिट्टिदलं मोहनीयसकलदलस्य त्रयोविंशतिचतुर्विशतिभागप्रमाणं (३३) जायते, लोभप्रथमसंग्रहकिट्टिगतस्य द्वाविंशतिचतुर्विंशतिभागप्रमाणस्य दलस्य तदानीं लोभद्वितीयसंग्रहकिट्टितया परिणतत्वात् । तथा लोभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org