________________
३५८ ]
खवगसेढी
[ गाथा--१८६ किट्टित्वेन परिणम्य शेषं सर्वदलं लोभप्रथमसंग्रहकिटेरधस्तादपूर्वावान्तरकिट्टितया संक्रमयति । तथा चोक्त सप्ततिकाचूर्णी-fxxxवेदेइ य ताव, जाव समयाहियावलिया सेस त्ति । तम्मि समये xxxxxxxx संतकम्म पि समऊणदुयावलियाबद्ध मोत्तूण सेसं सव्वं लोभसंजलणम्मि पक्खित्तं ।" इति । इत्थं लोभप्रथमसंग्रहकिट्टिदलं मोहनीयसकलदलस्य द्वाविंशतिचतुर्विंशतिभागप्रमाणं (३१) जायते, मायातृतीयसंग्रहकिट्टिदलस्यैकविंशतिचतुर्विंशतिभागप्रमितस्य तदानीं लोभप्रथमसंग्रहकिट्टितया परिणतत्वात् । तथा लोभप्रथमसंग्रहकिट्टिदलमितरसंग्रहकिट्टयपेक्षया द्वाविंशतिगुणं जायते, इतरसंग्रहकिट्टयोः प्रत्येकं दलस्यैकचतुर्विंशतिभागप्रमितत्वात् । एवं लोभप्रथमसंग्रहकिट्टेवान्तरकिट्टयोऽपि वक्तव्याः ।
मायातृतीयसंग्रहकिट्टिवेदनप्ररूपणायन्त्रकम् (१) द्वितीयस्थितिस्थमायातृतीयसंग्रहकिट्टिप्रदेशाग्रमपकृष्य मायातृतीयसंग्रहकिट्टिप्रथमस्थितिं करोति
वेदयति च । शेषविधिस्तु पूर्ववद् बोध्यः । यो विशेषः, स दर्यते(अ) मायातृतीयसंग्रह किट्टिवेदनाद्धाप्रथमसमय उदयावलिफागतं द्वितीयस्थितौ च द्विसभयोनद्वया
वलिकाबद्धं नूतनं दलं मायाद्वितीयसंग्रहकिट्टिसत्कं सत्कर्मणि विद्यते । (ब) मायाया तृतीयसंग्रहकिट्टि बध्नाति, लोभस्य तु पूर्ववत् प्रथमाम् । (स) अबान्तरकिट्टयल्पबहुत्वं प्रदेशाल्पबहुत्वञ्च चतुष्पदकं वक्तव्यम् । तत्राऽपि मायातृतीयसंग्रहकि
टेरवान्तरकिट्टयः प्रदेशाश्च लोभतृतीयसंग्रह किट्टितः संख्येयगुणा वाच्याः। (२) मायातृतीयसंग्रहकिट्टिप्रथमस्थितौ द्वधावलिकाशेषायां मायाया आगालो व्यवच्छिद्यते । (३) मायातृतीयसंग्रहकिट्टिप्रथमस्थितौ समयाधिकावलिकाशेषायाम् ।
(क) मायाया जघन्यस्थित्युदीरणा जघन्यस्थित्युदयो जघन्यानुभागोदीरणा जघन्यानुभागदयश्च । (ख) गुणितकर्मा शस्य जन्तोरुत्कृष्टप्रदेशोदीरणोत्कृष्टप्रदेशोदयश्च । (ग) संज्वलनद्विकस्य स्थितिबन्धः पञ्चदशदिवसप्रमाणः । (घ) मायायाः सर्वजघन्यस्थितिबन्धः । (ढ) मायायाः सर्वजघन्याऽनुभागबन्धः । (च) संज्वलनद्विकस्य स्थितिसत्त्वमेकवर्षप्रमाणम् । (छ) समयाधिकोदयावलिकागतं समयोनद्वयावलिकाबद्धं च नूतनं दलं विहाय शेषं सर्व
मायातृतीयसंग्रहकिट्टिदलं यथागमं लोभप्रथमसंग्रहकिट्टित्वेन परिणमयति । तेनलोभप्रथम
संग्रहकिट्टिदलं मोहनीयसर्वदलस्य द्वाविंशतिचतुर्विंशतिभागकल्पं (३४) भवति । (ज) लोभप्रथमसंग्रहकिट्टेरवान्तरकिट्टयः प्रदेशाश्चेतरसंग्रहकिट्टितो द्वाविंशतिगुणाः । (झ) निश्चयनयापेक्षया मायाया बन्धोदयोदीरणा व्यवच्छिद्यमाना व्यवच्छिन्नाः ।
अथ लोभवेदनकालं विवर्णयिषुराह- 'सेकाले' इत्यादि, 'अनन्तरकाले' मायातृतीयसंग्रहकिट्टिवेदनकालसमाप्तितोऽनन्तरसमये 'लोभप्रथमायाः' लोभप्रथमसंग्रहकिट्टिप्रदेशाग्रमुत्कीर्योदयसमयादारभ्याऽसंख्येयगुणक्रमेण बादरलोभवेदनकालस्य साधिकद्विभागप्रमाणासु लोभवेदनकालस्य च साधिकत्रिभागमितासु लोभप्रथमसंग्रहकिट्टिवेदनकालतस्त्वावलिकयाऽधिकासु स्थितिषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org