________________
लोभप्रथमसंग्रहकिट्टिवेदनविधिः ] किट्टिवेदनाद्धाधिकारः
[ ३५७ 'घाईण' इत्यादि, मायातृतीयसंग्रहकिट्टिवेदनचरमसमये 'घातिनां' ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणां कर्मणां स्थितिवन्धो मासपृथक्त्वं भवति । क्रोवद्वितीयसंग्रहकिट्टिवेदनचरमसमये यस्त्रयाणां घातिकर्मणां स्थितिबन्धो वर्षपृथक्त्वमात्र आसीत् , स क्रमेण हीयमानः सन् मायावेदनाद्धाचरमपमये मासपृथक्त्वप्रमितो जायते । उक्तं च कषायप्राभृतचूर्णी-"तिण्हं घादिकम्माणं ठिदिबंधो मासपुधत्तं ।" इति ।
___ 'इयराणं इत्यादि, 'इतरेषाम्' अघातिकर्मणां नामगोत्रवेदनीयरूपाणां च स्थितिवन्धः सङ्खथवर्षाणि भवति, पूर्वमपि संख्यातवार्षिक आसीत् , संख्यातस्थितिबन्धेषु गतेष्वपीदानी सङ्ख्यातवार्षिको भवति, नवरं पूर्वतः संख्येयगुणहीनो भवति ।
निश्चयनयमतमाश्रित्य तदानीमेव व्यवच्छिद्यमाना मायाया बन्धोदयोदीरणा युगपद् व्यवच्छिन्नाः । न्यगादि च सप्ततिकाचूर्णी-"तम्मि समए मायाए बंधोदओदीरणा य जुगवं फिति ।" इति ।
अथ स्थितिसत्त्वमभिधत्ते 'दुण्ह' इत्यादि, 'द्वयोः संज्वलनयोः' मायालोभरूपयोः कषाययोः स्थितिसत्त्वमेकवर्षो ‘भवति' जायते । मायाद्वितीयसंग्रहकिट्टिवेदनाद्धाचरमसमयोक्तस्थितिसत्त्वतः क्रमशो हीनो भवद् मायातृतीयसंग्रहकिट्टिवेदनकाले त्रैराशिकसाधितप्रमाणेन हीनं भूत्वेदानीमेकवर्षअमितं जायत इत्यर्थः । उक्त च कषायप्राभृतचूर्णी-"ठितिसंतकम्ममेकं वस्सं पडिवुण्णं ।" इति ॥ १८५ ॥
अथ षट्कर्मणां स्थितिसचं लोभप्रथमसंग्रहकिट्टिवेदनं चाऽभिधातुकाम आहघाइअघाईण कमा संखासंखियसमासहस्साइं। सेकाले पढमठिइं कुणेइ लोहपढमाउ वेयइ य॥१८६॥ (गीतिः)
घात्यघातिनां क्रमात् संख्यासंख्यसमासहस्राणि । अनन्तरकाले प्रथमस्थितिं करोति लोभप्रथमाया वेदयति च ॥१८६।। इति पदसंस्कारः ।
घाइ०' इत्यादि, मायातृतीयसंग्रहकिट्टिवेदनाद्धाचरमसमये घात्यघातिनां कर्मणां क्रमात् स्थितिसत्त्वं संख्यासंख्यसमासहस्राणि जायते, मोहनीयस्पोक्तत्वाच्छेषघातित्रयस्य स्थितिसत्वं संख्यातानि वर्षसहस्राण्यघातित्रयस्य चाऽसंख्येयानि वर्षसहस्राणि भवतीत्यर्थः । प्रत्यपादि च कषायप्राभृतचूर्णी-"तिण्हं घादिकम्माणं ठिदिसंतकम्मं संखेजाणि वस्ससहस्साणि । इदरेसिं कम्माणं ठिदिसंतकम्ममसंखेज्जाणि वस्ससहस्साणि ।" इति ।
तदानीमेवोदयसमयाधिकाऽऽवलिकागतं समयोनद्वयावलिकाबद्धं च नूतनं दलं वर्जयित्वा शेष मायातृतीयसंग्रहकिट्टिदलं गृहीत्वा ततश्चासंख्येयभागमानं दलं लोभप्रथमसंग्रहकिट्टिपूर्वापूर्वावान्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org