________________
३५६ ]
खवगसेढी
[ गाथा--१८५ वेदनकालत आवलिकयाऽधिकासु स्थितिष्वसंख्येयगुणक्रमेण दलं प्रक्षिपन् 'प्रथमस्थिति' मायातृतीयसंग्रहकिटेः प्रथम स्थितिं 'करोति' निवर्तयति । अभ्यधायि च कषायप्राभृतचूर्णी-“से काले मायाए तदियकिटोदो पदेसग्गमोकड्डियूण पढमठिदिं करेदि ।” इति । 'अणुहवई' ति अनुभवति' तदानीमेव च मायातृतीयसंग्रहकिट्टिप्रथमस्थितिं वेदयते । प्रत्यपादि च सप्ततिकाचूर्णी-"तओ से काले मायाए ततियकिटीओ दलियं ओकढित्तु पढमठितिं करेइ अंतोमुहुत्तपमोणं वेदेइ य ।" इति ।
तदानीमुदयावलिकागतं प्रथमस्थितौ द्वितीयस्थितौ च द्विसमयोनद्वयावलिकाबद्धं मायाद्वितीयसंग्रहकिट्टिदलं सत्कर्मणि भवति । अन्यः सर्वविधिः पूर्ववज्ज्ञातव्यः । नवरं मायायास्तृतीयसंग्रहकिट्टिबध्यते, लोभस्य तु पूर्ववत् प्रथमा । लोभतृतीयसंग्रहकिट्टितो मायातृतीयसंग्रहकिटेरवान्तरकिट्टयः प्रदेशाश्च संख्यातगुणा भवन्ति । एवंविधानेन मायातृतीयसंग्रहकिट्टिप्रथमस्थितौ द्वयावलिकाशेषायामागालो व्यवच्छिद्यते । ततः समयोनावलिकाऽतिक्रमे मायाया जघन्यस्थित्युदीरणा जायते, मायातृतीयसंग्रहकिट्टयाश्चोदयचरमसमयः । तदानीं संज्वलनमायाया जघन्यानुभागोदीरणा गुणितकमांशस्य च जन्तोर्मायाया उत्कृष्टप्रदेशोदीरणा जायते । तदानीमेव मायायाश्चरमोदयो भवति, अनन्तरसमये लोभस्योदयात् । उदीरणावत् संज्वलनमायाया जघन्यानुभागोदयो गुणितकमोशस्य च क्षपकस्य मायाया उत्कृष्टप्रदेशोदयो भवति ।।
'पण्ण' इत्यादि, तत्र 'चरिमुदये' त्ति'चरमोदये' संज्वलनमायाया उदयचरमसमये मायातृतीयसंग्रहकिट्टिप्रथमस्थिती समयाधिकावलिकाशेपायामित्यर्थः, 'संज्वलनदिकस्य' मायालोभरूपस्य कषायद्वयस्य 'बन्धः' स्थितिवन्धः पश्चदशदिना भवति । मायाद्वितीयसंग्रहकिट्टिवेदनाद्धाचरमसमये विहितस्थितिबन्धः क्रमेण हीनः सन् मायातृतीयसंग्रहकिट्टिवेदनाद्धायां त्रैराशिकसाधितप्रमाणेन हीनो भृत्वेदानी पञ्चदशदिवसमात्रो जायत इत्यर्थः। निरदेशि च कषायप्राभृतचूर्णी-“ताधे मायाए चरिमसमयवेदगो। ताधे दोण्हं संजलणाणं द्विदिबंधो अडमासो पडिवुण्णो।" इति । अयं च स्थितिबन्धो मायायाः सर्वजघन्यस्थितिबन्धः । मायाया अनुभागबन्धोऽपि तदानीं सर्वजघन्यो भवति ॥ १८४ ॥
अथ मायावेदनचरमसमये मोहनीयवर्जानां षण्णां कर्मणां स्थितिबन्धं मोहनीयस्य च स्थितिसत्त्वमभिधित्सुराह
घाईणं मासपुहुत्तं इयराणं य संखवरिसाणि । ठिइसंतं दुण्हं संजलणाणं होइ इगवासो ॥१८५॥ घातिनां मासपृथक्त्वमितरेषां च सञ्जयवर्षाणि । स्थितिसत्त्वं द्वयोः संज्वलनयोर्भवत्येकवर्षः ॥१८५।। इति पदसंस्कारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org