________________
मायाद्वितीयसंग्रह फिट्टिवेदनविधिः ]
किट्टवेदनाद्धाधिकारः
[ ३५५
ततथाऽसंख्येवभागमात्रं यथायोग्यमन्यत्र संक्रम्य शेषसर्वदलं माया तृतीय संग्रह किट्टेरधस्तादपूर्वावान्तरकिट्टितथा संक्रमयति । इत्थं मायातृतीयसंग्रह किट्टिदलं मोहनीय सकलदलस्यैकविंशतिचतुर्विंशतिभागप्रमाणं (३४) जायते, मायाद्वितीयसंग्रह किट्टिदलस्य विंशतिचतुर्विंशतिभागत्रमितस्य तदानीं माया तृतीयसंग्रह किट्टितया परिणतत्वात् । तथा मायातृतीयसंग्रह किट्टिदलमितरसंग्रह किट्टयपेक्षयैकविंशतिगुणं जायते, इतरसंग्रहकिट्टीनां प्रत्येकं दलस्यैकचतुर्विंशतिभागप्रमाणत्वात् । एवं माया तृतीयसंग्रह किट देखान्तरकियोऽपि वक्तव्याः ॥ १८३॥
मायाद्वितीय संग्रह किट्टिवेदन प्ररूपणायन्त्रकम्
(१) द्वितीयस्थितिस्थमायाद्वितीयसंग्रह किट्टिगतप्रदेशाग्रमपकृष्य मायाद्वितीयसंग्रह किट्टि प्रथमस्थितिं करोति वेदयति च । शेषविधिस्तु पूर्ववद् बोध्यः । नवरं मायाया द्वितीयसंग्रह किट्टिं बध्नाति, लोभस्य तु पूर्ववत् प्रथमाम्, तथाऽवान्तरकिट्टयल्पबहुत्वं प्रदेशाल्पबहुत्वञ्च पञ्चपदकं वक्तव्यम्, तत्राऽपि तृतीयसंग्रह कट्टितो मायाद्वितीयसंग्रह किट्टेरवान्तरकिट्टयः प्रदेशाश्च संख्येयगुणा वाच्याः । (२) मायाद्वितीयसंग्रह किट्टेः प्रथमस्थितौ द्वयावलिकाशेषायां मायाद्वितीयसंग्रह किट्टे रागालो व्यवच्छिद्यते ।
मायाद्वितीयसंग्रह किट्टप्रथमस्थितौ समयाधिकावलिकाशेषायाम्
(३) मायाद्वितीयसंग्रह किट्टे रुदच चरमसमयः ।
(४) संज्वलनमायाया जघन्य स्थित्युदीरणा ।
(५) संज्वलनद्विकस्य स्थितिबन्धोऽन्तर्मुहूर्त न्यूनविंशतिदिवसाः ।
(६) संज्वलनद्विकस्य स्थितिसत्त्वमन्तर्मुहूर्त न्यूनचतुर्मासाधिकैकवर्षप्रमितम् ।
(७) ज्ञानावरणदर्शनावरणान्तरायाणां स्थितिसत्त्वं संख्येयानि वर्षसहस्राणि ।
(८) नामगोत्रवेदनीयानां स्थितिसत्त्वमसंख्येयवर्षसहस्राणि ।
(९) समयाधिको दयावलिकागतं समयोनावलिकाद्वयबद्धं च नूतनं दलिकं वर्जयित्वा शेषं प्रभूतं मायाद्वितीयसंग्रह किट्टिदलं यथागमं मायातृतीयसंग्रह किट्टितया परिणम्यते । तेन मायातृतीयसंग्रह किट्टिदलं मोहनीयसर्वदलस्यैकविंशतिचतुर्विंशतिभागकल्पं (३४) जायते ।
(१०) मायातृतीयसंग्रह किट्टिदलमितर संग्रह किट्टयपेक्षयैकविंशतिगुणं भवति ।
(११) एवं मायातृतीयसंग्रह किट्टे रवान्तरकिट्टयोऽपीतरसंग्रह किट्टी नामवान्तरकिट्टिभ्य एकविंशतिगुणाः ।
मायाद्वितीयसंग्रह किट्टिवेदनाद्धासमाप्तितः परं यत्करोति, तदभिधातुकाम आह सेकाले पढमठिहं मायातइयाउ कुणइ अणुहवए ।
पण्णरसदिणा बंधो संजलणदुगस्स चरिमुदये ॥ १८४॥
अनन्तरकाले प्रथमस्थितिं मायातृतीयायाः करोत्यनुभवति ।
पञ्चदशदिना बन्धः संज्वलनद्विकस्य चरमोदये || १८४ ॥ इति पदसंस्कारः । 'सेकाले' इत्यादि, 'अनन्तरकाले' मायाद्वितीयसंग्रह किट्टिवेदनाद्धासमाप्तितोऽनन्तरसमये 'मायातृतीयायाः' मायातृतीयामुत्कीर्य - मायातृतीयसंग्रह किट्टि प्रदेशाग्रमुत्कीर्योदयसमयादारभ्य माया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org