SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ३५४ ] खवगसेढी [ गाथा--१८३ मायाप्रथमसंग्रहकिट्टिवेदनाद्धायाः समाप्तेरनन्तरं यत्करोति, तद् निजिगदिपुराहसेकाले पढमठिइं मायाबीयाउ करइ अणुहवएऽन्ते । देसूणा वीसदिणा बंधो मोहस्स सोलमासा संतं ॥१८३॥ (आर्यागीतिः) अनन्तरकाले प्रथमस्थिति मायाद्वितीयस्याः करोत्यनुभवत्यन्ते।। देशोना विंशतिदिना बन्धो मोहस्य षोडशमासाः सत्त्वम् ॥१८३॥ इति पदसंस्कारः। 'सेकाले' इत्यादि, 'अनन्तरकाले' मायाप्रथमसंग्रह किट्टिवेदनकालपमाप्तितोऽनन्तरसमय इत्यर्थः, 'मायाद्वितीयस्याः' गम्यस्य यवन्तस्योत्पूर्वककृधातोः कर्मणि पञ्चमी विभक्तिः, ततश्चायमर्थः-मायाद्वितीयामुत्कीर्य-मायाद्वितीयसंग्रहकिट्टिप्रदेशाग्रमुत्कीर्योदयसमयादारभ्य स्ववेदनकालत आवलिकयाऽधिकासु स्थितिष्वसंख्येयगुणक्रमेण निक्षिपन् 'प्रथमस्थिति' मायाद्वितीयसंग्रहकिटटेः प्रथमस्थितिं करोति । न्यगादि च कषायप्राभृतचूर्णी-से काले मायाए विदियकिटोदो पदेसग्गमोकड्डियूण पढमहिदिं करेदि ।” इति । 'अणुहवए' ति 'अनुभवति' तथा तदानीमेव मायाद्वितीयसंग्रहकिट्टिप्रथमस्थितिं वेदयति । अभिहितं च सप्ततिकाचौँ-"तओ से काले मायाए बितियकिटोओ दलिअं ओकढित्तु पढमठितिं करेइ वेदेइ य ।” इति । तदानीमुदयावलिकागतं प्रथमस्थितौ द्वितीयस्थितौ च द्विसमयोनद्वयावलिकाबद्धमभिनवं मायाप्रथमसंग्रहकिट्टिदलं सत्कर्मणि विद्यते । अन्यः सर्वविधिः पूर्ववज्ज्ञातव्यः, नवरं मायाया द्वितीयसंग्रहकिट्टिबध्यते, लोभस्य तु पूर्ववत् प्रथमा । लोभतृतीयसंग्रहकिट्टितो मायाद्वितीयसंग्रहकिट्टरवान्तरकिट्टयः प्रदेशाश्च संख्येयगुणा बोद्धव्याः, तथा मायाद्धितीयसंग्रहकिट्टिप्रथमस्थितौ द्वयावलिकाशेषायामागालो व्यवच्छिद्यते । ततः समयोनाऽऽवलिकायां गतायां मायाया जघन्यस्थित्युदीरणा जायते, मायाद्वितीयसंग्रहकिटटेश्च चरमोदयः प्रवर्तते । _ 'अन्ते' चरमे मायाद्वितीयसंग्रहकिटेरुदयचरमसमय इत्यर्थः, मोहस्य मायालोभात्मकस्य मोहनीयकर्मणो बन्यो 'देशोना' अन्तमुहूर्तन्युना विंशतिदिना जायते । अथ मायाद्वितीयसंग्रहकिट्टिवेदनचरमसमये स्थितिसत्वं भणति—'सोलमासा' इत्यादि, 'देसूणा'तिपदमत्राऽपि योज्यम् , देशाना-अन्तमुहर्तन्यूनाः षोडशमासाः 'सत्त्वं' स्थितिसचं जायते, बन्धस्य सत्वस्य च त्रैराशिकसाधितप्रमाणेन हानिदर्शनात् । उक्त च कषायप्राभूतचूर्णी-ताधे ठिदिबंधो वोसं दिवसा देसूणा, ठिदिसंतकम्मं सोलस मासा देसूणा ।” इति । घातित्रयस्य स्थितिसत्त्वं संख्येयानि वर्षसहस्राण्यघातित्रयस्याऽसंख्येयानि वर्षसहस्राणि ज्ञेयम् , पूर्व प्रतिपादितत्वात् नेह निगदितम् । तदानीमुदयसमयाधिकावलिकागतं समयोनाद्वयावलिकाबद्धं च नूतनं दलं परित्यज्य शेषं सर्व मायाद्वितीयसंग्रहकिट्टिदलं गृहीत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy