________________
मायाप्रथमसंग्रह किट्टिवेदनविधिः ] किट्टिवेदनाद्वाधिकारः
[ ३५३ नाष्टमासाधिकवर्षमात्रं भवति । व्याहृतं च कवायग्रामृत -"एदेणेव विहिणा संपत्तो मायापढमकिटिं वेदयमाणस्स जा पढमहिदी, तिस्से समयाहियावलिया सेसात्ति, ताधे ठिदिबंधो दोण्हं संजलणाणं पणुवोसं दिवसा देसूणा । ठिदिसंतकम्मं वस्समह च मासा देसूणा ।" इति ।
ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणां स्थितिसचं तु संख्येयानि वर्षसहस्राणि, नामगोत्रवेदनीयानां चाऽसंख्येयानि वर्षसहस्राणि बोध्यम्, पूर्वमभिहितत्वाद् इह नोक्तम् । तदानीं चोदयसमयाधिकावलिकागतं समयोना-ऽऽवलिकाद्वयबद्धं च नूतनं दलं विहाय शेषं मायाप्रथमसंग्रहकिट्टिदलं गृहीत्वा ततश्चाऽसंख्येयभागमात्रं यथायोग्यमन्यत्र संक्रम्य शेषसर्वदलं मायाद्वितीयसंग्रह किटटेरधस्तादपूर्वावान्तरकिट्टितया परिणमयति, इत्थं मायाद्वितीयसंग्रहकिट्टी दलं मोहनीयसकलदलस्य विंशतिचतुर्विंशतिभागप्रमाणं (३४) जायते, मायाप्रथमसंग्रहकिट्टिदलस्यैकोनविंशतिचतुर्विंशतिभागप्रमितस्य तदानीं मायाद्वितीयसंग्रहकिट्टितथा परिणतत्वात् । तथा मायाद्वितीयसंग्रहकिट्टिदलमितरसंग्रहकिट्टयपेक्षया विंशतिगुणं जायते, इतरसंग्रहकिट्टीनां प्रत्येकं दलस्यैकचतुर्विंशतिभागप्रमाणत्वात् । एवं मायाद्वितीयसंग्रहकिट्टेखान्तरकिट्टयो-ऽपि वाच्याः ॥ १८२ ॥
मायाप्रथमसंग्रहकिट्टिवेदनप्ररूपणायन्त्रकम् (१) द्वितीयस्थितिस्थमायाप्रथमसंग्रहकिट्टिप्रदेशाग्रमपकृष्य मायाप्रथमसंग्रहकिट्टयाः प्रथमस्थितिं करोति
वेदयति च। शेषविधिस्तु पूर्ववद् बोध्यः, नवरं संज्वलनद्विकस्य प्रथमसंग्रहकिट्टि बध्नाति । तथाऽवान्तरकिट्टयल्पबहुत्वं प्रदेशाल्पबहुत्वञ्च षट्पदकं वाच्यम् , तत्राऽपि लोभतृतीसंग्रह किट्टितो मायाप्रथमसंग्रह किट्टेरवान्तरकिट्टयः प्रदेशाश्च संख्येयगुणा वाच्याः ।
मायाप्रथमसंग्रह किट्टिवेदनाद्धायां मानस्य चरमप्रक्षेपेऽसंक्रम्यमाणे (२) संज्वलनमानस्य जघन्यस्थितिसत्त्वं जघन्याऽनुभागसत्कर्म च ।। (३) मानोदयचरमसमये जघन्ययोगिना बद्धसंज्वलनमानस्य जघन्यप्रदेशसत्कर्म भवति । (४) चरमप्रक्षेपं संक्रमयतो जीवस्य तु संज्वलनमानस्य जघन्यस्थितिसंक्रमो जघन्यानुभागसंक्रमश्च । (५) तथा कर्मप्रकृतिचूणिकृदभिप्रायेण मानोदयचरमसमये जघन्ययोगेन बद्धस्य नूतनमानदलिकस्य
जघन्यप्रदेशसंक्रमो भवति । (६) मायाप्रथमसंग्रहकिट्टेः प्रथमस्थितौ द्वयावलिकाशेषायामागालो व्यवच्छिद्यते। (७) मायाप्रथमसंग्रहकिट्टेः प्रथमस्थितौ समयाधिकावलिकाशेषायां मायाया जघन्यस्थित्युदीरणा (८) मायाप्रथमसंग्रहकिट्टेः प्रथमस्थितौ समयाधिकावलिकाशेषायां मायाप्रथमसंग्रहकिट्टेश्वरमोदयः ।
___मायाप्रथमसंग्रहकिट्टेरुदयचरमसमये (९) संज्वलनद्विकस्य स्थितिबन्धोऽन्तमुहूर्तन्यूनपञ्चविंशतिदिवसप्रमाणः । (१०) संज्वलनद्विकस्य स्थितिसत्त्वमन्तर्मुहूर्त न्यूनाष्टमासाधिकैकवर्षमात्रम् । (११) घातित्रयस्य संख्यातवर्षसहस्राण्यघातित्रयस्य चासंख्येयवर्षसहस्राणि स्थितिसत्कर्म । (१२) समयाधिकोदयावलिकागतं समयोनावलिकाद्वयबद्धं च दलं मुक्त्वा शेषं प्रभूतं मायाप्रथमसंग्रह
किट्टिदलं यथासंभवं मायाद्वितीयसंग्रहफिट्टित्वेन परिणतम् । तेन मायाद्वितीयसंग्रहकिट्टिदलं
मोहनीयसकलदलस्य विंशतिचतुर्विंशतिभागकल्पं (३३) जायते।। (१३) इतरसंग्रहकिट्टयपेक्षया मायाद्वितीयसंग्रहकिट्टेः प्रदेशा अवान्तरकिट्टयश्च विंशतिगुणा जायन्ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org