________________
खवगसेढी
३५२ ]
[गाथा-१८२ संजलणदुगस्स तु बंधो देसूणपणवीसदिवसाइं । चरिमे संतं देसूणवीसमासा मुणेयव् ॥१८२॥
संज्वलनद्विकस्य तु बन्धो देशोनपञ्चविंशतिदिवसानि ।।
चरमे सत्त्वं देशोनविंशतिमासा ज्ञातव्यम् ।।१८२।। इति पदसंस्कारः । 'संजल०' इत्यादि, तत्र 'चरमे' मापाप्रथमसंग्रहकिट्टिवेदन चरमसमये 'संज्वलनदिकस्य' माया-लोभलक्षणस्य कषायद्वयस्य 'बन्धः स्थितिबन्धो 'देशोनपञ्चविंशतिदिवसानि' अन्तर्मुहूर्तन्यूनपश्चविंशतिदिनानि भवति। तथाहि-मानवेदनचरमसमये संज्वलनानां यः स्थितिवन्ध एकमासप्रमाण आसीत् , मायावेदनाद्धाचरमसमये स पञ्चदशदिवसप्रमाणो भविष्यति । इत्थं माया संग्रहकिट्टित्रयवेदनकाले पञ्चदशदिवसप्रमाणः स्थितिवन्धो हीयते ।।
___ यदि मायासंग्रहकित्रियवेदनकाले पञ्चदशदिवसमात्रः स्थितिबन्धो हीयते, तकस्या मायासंग्रहकिटेर्वेदनकाले कियान् स्थितिबन्धो हीयेत ? इति त्रैराशिकेन पञ्चदिवसा लभ्यन्ते । न्यासः- प्रमाणम् प्रमाणफलम् इच्छा इच्छाफलम्
. ३ । १५ दिवसाः । १ । ५ दिवसाः ।
तत्रापि पश्चानुपूर्व्या संग्रहकिट्टीनां वेदनकालस्य विशेषाधिकत्वान्मायाप्रथमसंग्रहकिट्टिवेदनकालेऽधिकः स्थितिबन्धो हीयते, ततो हीनो मायाद्वितीयसंग्रहकिट्टिवेदनकाले, ततोऽपि हीनतरो मायातृतीयसंग्रहकिट्टिवेदनकाले । तेनाऽन्तर्मुहूर्ताधिकपश्चदिवसप्रमाणः स्थितिबन्धो मापाप्रथमसंग्रहकिट्टिवेदनकाले हीयते । ततश्चाऽन्तमुहूर्तन्यूनपञ्चविंशतिदिवसप्रमाणः स्थितिवन्धो मायाप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमये जायते ।
_ 'संत' इत्यादि, 'सच' मायाप्रथमसंग्रहकिट्टिवेदनचरमसमये संज्वलनदिकस्य स्थितिसत्त्वं 'देशोनविंशतिमासाः' अन्तर्मुहूर्तन्यूनविंशतिमासप्रमाणं ज्ञातव्यम् । तथाहि-मानवेदनाद्धाचरमसमये मोहस्य स्थितिसचं दिवार्षिकमासीत् , तद् मायावेदनाद्धाचरमसमययेकवर्षप्रमितं भविष्यति । इत्थं मायासंग्रहकिट्टित्रयवेदनकाले द्वादशमासप्रमाणं स्थितिसचं घात्यते । यदि मायासंग्रहकिट्टित्रयवेदनकाले द्वादशमासप्रमाणं स्थितिसत्वं घात्यते, तर्खेकस्या मायासंग्रहकिया वेदनकाले कियस्थितिसचं घात्येत ? इति त्रैराशिकेन चत्वारो मासा लभ्यन्ते । न्यामः-- प्रमाणम् प्रमाणफलम् इच्छा इच्छाफलम्
३। १२ मासाः । १। ४ मासाः । पश्चानुपूर्व्या संग्रहकिट्टीनां वेदनकालस्य विशेषाधिकत्वाद् मायाप्रथमसंग्रहकिट्टिवेदनकालेऽधिकं स्थितिसचं पात्यते । ततो हीनं मायाद्वितीयसंग्रहकिट्टिवेदनकाले घात्यते । ततो हीनतरं मायाततीयसंग्रहकिट्टिवेदनकाले घात्यते, तेनाऽन्तर्मुहूर्ताधिकचतुर्मासप्रमाणं स्थितिसचं मायाप्रथमसंग्रहकिट्टिवेदनकाले पात्यते । ततश्च मायाप्रथमसंग्रहकिट्टिवेदनचरमसमये स्थितिसचमन्तमुहूर्तन्यू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org