________________
मायाप्रथम संग्रह किट्टिवेदनविधिः ]
किट्टवेदनाद्धाधिकारः
[ ३५१
मानतृतीयसंग्रह किट्टिवेदनविधिमनुपाल्याऽनन्तरसमये यत्करोति, तदाविश्चिकीषु राह— सेकाले मायाsss कि उक्किरिय करइ पढमठिहूं ।
des अण्णो सव्वो य विही पुव्वव्व णायव्व ॥ १८१॥
अनन्तरकाले मायाssदिमकिट्टिमुत्की करोति प्रथमस्थितिम् । वेदयत्यन्यः सर्वश्च विधिः पूर्ववज्ञातव्यः || १८१ ।। इति पदसंस्कारः ।
'सेकाले' इत्यादि, 'अनन्तरकाले ' मानवेदन चरमसमयसमनन्तरसमये 'मायाऽऽदिमकट्टि द्वितीयस्थितिस्थमाया प्रथम संग्रह किट्टि प्रदेशाग्रमुत्कीर्योदयसमयाद् मायावेदनकालस्य साधिकत्रिभागे मायाप्रथम संग्रह किट्टेवे दनकालतः पुनरावलिकयाऽधिकासु स्थितिष्वसंख्येयगुणक्रमेण निक्षिपन् 'प्रथमस्थितिं' माया प्रथम संग्रह किट्टेरादिमस्थिति 'करोति' निर्वर्तयति । उक्तं च कषायप्राभृतचूर्णी - "तदो से काले मायाए पढमकिट्टीए पदेसग्गमोक्कड्डियूण पढदिं करेदि ।" इति ।
'वेयइ' त्ति तदानीमेव मायाप्रथम संग्रहकिट्टेः प्रथमस्थितिं 'वेदयति' अनुभवति च । उक्त चसप्ततिकाचूर्णौ- "तओ से काले मायाए पढमकिट्टीओ दलियं ओकड्ढेत्तु पढमठितं करेइ वेदेइ य कमेण ताव, जाव अंतोमुहुत्तकालं ।” इति । तदानीं यद् मानतृतीयसंग्रह किट्टिदलं प्रथमस्थित्यामुदयावलिकागतं विद्यते, तद् वेद्यमानमायाप्रथम संग्रहकि प्रतिसमयं स्तिकसंक्रमेण संक्रम्य विनाशयति, द्वितीयस्थितौ च यद् द्विसमयोनाऽऽवलिकायेन बद्धनूतनदलं विद्यते, तत् पुरुषवेदवत् तावता कालेन संक्रमयता जन्तुना चरमप्रक्षेपेऽसंक्रम्यमाणे संज्वलनमानस्य जघन्यस्थितिसत्त्वं जघन्यानुभागसत्त्वं च, तथा जघन्ययोगेन मानचरमसमये प्रदेश बद्धवता जन्तुना मानस्य जघन्य प्रदेशसत्कर्म प्राप्यते । चरमप्रक्षेपे च संक्रम्यमाणे मानस्य जवन्यस्थितिसंक्रमो जघन्याऽनुभागसंक्रमच भवति । कर्मप्रकृतिचूर्णिकारादीनामभिप्रायेण पुनर्मानजघन्य प्रदेश संक्रमोऽपि भवति ।
'अण्णो' इत्यादि, अन्यः सर्वच विधिः पूर्ववज्ज्ञातव्यः, विशेषाभावात् । नवरमत्र मायालोभयोरुभयोः प्रथमसंग्रहकिट्टिर्वध्यते । लोभतृतीय संग्रह किट्टितो मायाप्रथम सग्रह कि टेरवान्तरकिट्टयः प्रदेशाश्च संख्येयगुणा वक्तव्याः ।
एवंविधानेन मायाप्रथम संग्रह किद्विप्रथम स्थितौ दयावलिकाशेषायामागालो व्यवच्छिद्यते । ततः समयोनाऽऽवलिकाव्यतिक्रमे मायाया जघन्यस्थित्युदीरणा जायते, मायाप्रथम संग्रहकिट्टेश्व चरमोदयः ॥१८१॥
अथ मायाप्रथम संग्रह किटेरुदयचरमसमये मोहनीयस्य स्थितिबन्धं स्थितिसचं प्रकाशयितुकामः प्राह
Jain Education International
For Private & Personal Use Only
च
www.jainelibrary.org