________________
३५० ]
खवगसेढी
[ गाथा--१८० च कषायप्राभूतचूर्णी-"ताधे चरिमसमयवेदगो । ताधे तिण्हं संजलणाणं द्विदिबंधो मासो पउिवुण्णो । संतकम्मं ये वस्साणि पडिवुण्णाणि ।” इति ।
निश्चयनयापेक्षया तदानीं मानस्य बन्धोदयोदीरणा व्यवच्छिद्यमाना व्यवच्छिन्नाः, तथा समयाधिकोदयावलिकागतं दलं समयोनद्वयावलिकाबद्धं च नूतनदलं विमुच्य शेपं मानदलमादाय ततश्चाऽसंख्येयभागप्रमाणं यथायोग्यमन्यत्र संक्रम्याऽवशिष्टं सर्वदलं मायाप्रथमसंग्रहकिटेरधस्तात् संक्रमयति । उक्तश्च सप्ततिकाचूर्णी-"xxवेदेइ य कमेण ताव, जाव समयाहियावलिया सेस त्ति । तम्मि समए माणस्स बंधोदयोदोरणा य जुगवं फिति । संतकम्मं पि समयूणदुआवलियबद्धं मोत्तण सव्वं मायाए संछुद्ध ।" इति । इत्थं तदानीं मायाप्रथमसंग्रहकिट्टिदलं मोहनीयसकलदलस्यैकोनविंशतिंचतुर्विंशतिभागप्रमाणं (१९) जायते, मानतृतीयसंग्रहकिट्टिसम्बद्धस्याऽष्टादशचतुर्विशतिभागप्रमाणदलस्य तदानीं मायाप्रथमसंग्रहकिट्टित्वेन परिणतत्वात । तथा मायाप्रथमसंग्रहकिट्टिदलमितरसंग्रहकिट्टयपेक्षयकोनविंशतिगुणं भवति, इतरसंग्रहकिट्टीनां प्रत्येकं दलस्यैकचतुर्विंशतिभागप्रमाणत्वात् । एवं मायाप्रथमसंग्रहकिट्टरवान्तरकिट्टयोऽपि वक्तव्याः ॥१८०॥
मानतृतीयसंग्रहकिट्टिवेदनप्ररूपणायन्त्रकम् (१) द्वितीयस्थितिस्थमानतृतीयसंग्रहकिट्टिप्रदेशाग्रमपकृष्य मानतृतीयसंग्रहकिट्टिप्रथमस्थितिं करोति
वेदयति च । शेषविधिः पूर्ववद् बोध्यः । (२) मानतृतीयसंग्रहकिट्टिवेदनाद्धाप्रथमसमय उदयावलिकागतं द्वितीयस्थितौ च द्विसमयोनद्वया
वलिकाबद्धं नूतनं दलं मानद्वितीयसंग्रहकिट्टिसत्कं सत्कर्मणि विद्यते । (३) माजस्य तृतीयसंग्रहकिट्टि बध्नाति, शेषयोस्तु प्रथमाम्। (४) मानतृतीयसंग्रहकिट्टेरवान्तरकिट्टयः प्रदेशाश्च लोभतृतीयसंग्रहकिट्टितः संख्येयगुणाः । (५) मानतृतीयसंग्रहकिट्टिप्रथमस्थितौ द्वयावलिकाशेषायां मानस्यागालो व्यवच्छिद्यते । (६) मानतृतीयसंग्रहकिट्टिप्रथमस्थितौ समयाधिकावलिकाशेषायाम् ।
(क) मानस्य जघन्यस्थित्युदीरणा जघन्यस्थित्युदयश्च । (ख) गुणितकर्मा शस्य जन्तोरुत्कृष्टप्रदेशोदीरणोत्कृष्टप्रदेशोदयश्च । (ग) संज्वलनत्रिकस्य स्थितिबन्ध एकमासप्रमाणः। (घ) मानस्य सर्वजघन्यस्थितिबन्धः । (ङ) मानस्य सर्वजघन्याऽनुभागबन्धः । (च) संघल नत्रिकस्य स्थितिसत्त्वं द्विवार्षिकम् । (छ) समयाधिकोदयावलिकागतं समयोनद्वयावलिकाबद्धं च नूतनं दलं विहाय शेषं सर्व
मानतृतीयसंग्रहकिट्टिदलं यथागमं मायाप्रथमसंग्रहकिट्टित्वेनपरिणमयति । तेनमायाप्रथम
संग्रहकिट्टिदलं मोहनीयसर्वदलस्यैकोनविंशतिचतुर्विंशतिभागकल्पं (३६) भवति । (ज) मायाप्रथमसंग्रहकिट्टेरवान्तरकिट्टयः प्रदेशाच इतरसंग्रहकिट्टित एकोनविंशतिगुणाः । (झ) निश्चयनयापेक्षया मानस्य बन्धोदयोदीरणा व्यवच्छिद्यमाना व्यवच्छिन्नाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org