________________
मानतृतीयसंग्रहकिट्टिवेदनविधिः ] किट्टिवेदनाद्वाधिकारः
[३४९ मानद्वितीयसंग्रहकिट्टिवेदनविधि परिपाल्य यत्करोति, तद् विभणिपुराहसेकाले माणतइयकिट्टि उकिरिय करइ पढमठिइं। वेयइ मोहस्स तु बंधो मासोऽन्ते दुवरिसा संतं ॥१८०॥ __ अनन्तरकाले मानतृतीयकिट्टिमुल्कीर्य करोति प्रथमस्थितिम् ।
वेदयति मोइस्य तु बन्धो मासोऽन्ते द्विवर्षों सत्त्वम् ॥१८०॥ इति पदसंस्कारः । 'सेकाले' इत्यादि, 'अनन्तरकाले' मानद्वितीयसंग्रहकिट्टिवेदनाद्धासमाप्तितोऽनन्तरसमये 'मानतृतीयकिट्टि' मानतृतीयसंग्रहकिट्टिप्रदेशाग्रमुत्कीर्योदयसमयादारभ्याऽसंख्येयगुणक्रमेण स्त्रवेदनकालत आवलिकयाऽधिकासु स्थितिषु निक्षिपन् 'प्रथमस्थिति' मानतृतीयसंग्रहकिटेरादिमस्थिति 'करोति' निवर्तयति । अभ्यधाथि च कषायप्राभूतचूर्णी-“से काले माणतदियकिटोदो पदेसग्गमोक्कड्डियूण पढमहिदि करेदि ।” इति ।
'वेयई' त्ति तथा तदानीमेव 'वेदयति' मानतृतीयसंग्रह किट्टिप्रथमस्थितिं चानुभवति । अवादि च सप्ततिकाचूर्णी-"ततो से काले माणस्स ततियकिट्टीओ दलिअं उक्कढित्तु पढमहितिं करेति वेदेइ य।" इति । तदानीं प्रथमस्थित्यामुदयावलिगतं द्वितीयस्थितौ च द्विसमयोनद्यावलिकाबद्धं नूतनं दलं मानद्वितीयसंग्रहकिट्टिसम्बन्धि विद्यते । शेषा सर्वा प्ररूपणा पूर्ववत्कर्तव्या, विशेषाऽभावात् । नवरं मानस्य तृतीयसंग्रहकिट्टिमेव बध्नाति, शेषयोस्तु प्रथमाम् , मानतृतीयसंग्रहाकट्टेरवान्तरकिट्टयः प्रदेशाश्व यथासंख्यं लोभतृतीयसंग्रहकिट्टेवान्तरकिट्टितः प्रदेशेभ्यश्च संख्येयगुणा भवन्ति । एवंक्रमेण मानतृतीयसंग्रहकिट्टि वेदयतः क्षपकस्य मानतृतीयसंग्रहकिट्टिप्रथमस्थितौ द्वयावलिकाशेषायामागालो व्यवच्छिद्यते । ततः समयोनाऽऽवलिकायामतिकान्तायां मानतृतीयसंग्रहकिट्टिप्रथमस्थितेः समयाधिकावलिकायां शेषायां मानस्य जघन्यस्थित्युदीरणा मानतृतीयसंग्रहकिट्टयाश्च वेदनचरमसमयो भवति । इत्थं मानकिट्टिवेदनाद्धायां मानस्य त्रिर्जघन्यस्थित्युदीरणा जाता । तथा तदानीमेव संज्वलनमानस्य जघन्याऽनुभागोदीरणा गुणितकर्माशस्य च जन्तोः संज्वलनमानस्योकृष्टप्रदेशोदीरणा जायते । एवं संज्वलनमानस्य जघन्याऽनुभागोदयो गुणितकर्माशस्य च मानस्योत्कृष्टप्रदेशोदयो जायते ।
'मोहस्स' इत्यादि, तत्र 'अन्ते' मानतृतीयसंग्रहकिट्टिवेदनाद्धाचरमसमये 'मोहस्य' संज्वलनमानमायालोभरूपमोहनीयकर्मणस्तु बन्धो मासो भवति, मानद्वितीयसंग्रहकिदिवेदनचरमसमयतस्त्रैराशिकसाधितैरन्तमुहूर्तन्यूनदशदिवसीनो भवन्नकमासिकः स्थितिबन्धो जायत इत्यर्थः। स च मानस्य स्थितिवन्धः सर्वजघन्यो ज्ञातव्यः । एवमनुभागबन्धोऽपि मानस्य जघन्यो जायते । 'संत' इत्यादि, संज्वलनत्रिकस्य स्थितिसत्त्वं द्विवर्षों' वर्षद्वयं जायते, मानद्वितीयसंग्रहकिद्विवेदनचरमसमयाऽपेक्षया त्रैराशिकसाधिताऽन्तमुहर्तन्यूनाष्टमासीनं सद् द्विवार्षिकं जायत इत्यर्थः । उक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org