________________
३४८ ]
aareer
[ गाथा - १७९
'संत' इत्यादि, तत्र 'कषायाणां' त्रयाणां संज्वलनानां 'सत्त्वं' स्थितिसत्त्वं 'देशोना' अन्तर्मुहूर्तपरिहीना द्वात्रिंशन्मासा भवति, त्रैराशि कसाधितैरन्तर्मुहूर्त न्यूनाष्टमासैर्मान द्वितीयसंग्रह किट्टिवेदनाद्वायां घातितं सदिदानीमेतावज्जायत इत्यर्थः । उक्तं च कषायप्राभृतचूर्णी- "तेणेव विहिणा संपत्ती माणस्स विदियकिहिं वेदयमाणस्स जा पहमट्ठिदी, तिस्से समयाहियावलियसेसा त्ति, ताथे संजलणाणं ठिदिबंधो मासो दस च दिवसा देसॄणा । संतकम्म दो वस्त्राणि अट्ठे च मासा देसृणा ।" इति ।
त्रयाणां घातिकर्मणां स्थितिसचं पूर्ववत् संख्येयानि वर्षसहस्राण्यघातित्रयस्य चाऽसंख्येयानि वर्षसहस्राणि निश्चेतव्यम्, पूर्वमभिहितत्वाद् इह न गदितम् ।
तथा मानद्वितीयसंग्रह किट्टिवेदनाद्धाचरमसमये मानद्वितीयसंग्रह किया उदयसमयाधिकावलिकागतं समयोनद्वयावलिकाबद्धं च नूतनं दलं विमुच्य शेषं मानद्वितीयसंग्रह किट्टेलं गृहीत्वा ततश्चाऽसंख्येयभागप्रमाणं दलं यथायोग्यमन्यत्र संक्रम्य शेषसर्वदलं मानतृतीयसंग्रह कि टेरधस्तात् संक्रमयति, इत्थं मानतृतीयसंग्रह किडौ दलं मोहनीय सकलदलस्याऽष्टादशचतुर्विंशतिभागकन्यं ( 5 ) जायते, मानद्वितीय संग्रह किद्वयाः सप्तदशचतुर्विंशतिभाग प्रमाणदलस्य तदानीं मानतृतीय संग्रह किट्टितया परिणतत्वात् । तथा मानतृतीय संग्रह किट्टिदलमितर संग्रह कियपेक्षयाऽष्टादशगुणं जायते, इतरसंग्रहकिट्टीनां प्रत्येकं दलस्यैकचतुर्विंशतिभागप्रमितत्वात् । एवं मानतृतीयसंग्रह किया अवान्तरकियोऽपि निश्चेतव्याः ॥ १७९॥
मानद्वितीय संग्रह किट्टिवेदन प्ररूपणायन्त्रकम्
(१) द्वितीयस्थितिस्थमानद्वितीयसंग्रह किट्टिगतप्रदेशाश्रमपकृष्य मानद्वितीयसंग्रह किट्टिप्रथमस्थितिं करोति वेदयति च । शेषविधिस्तु पूर्ववद् बोध्यः ।
(२) मानद्वितीयसंग्रह किट्टेः प्रथमस्थितौ द्वयावलि काशेवायां मानद्वितीयसंग्रह किट्टे रागालो व्यव च्छिद्यते ।
मानद्वितीयसंग्रह किट्टिप्रथमस्थितौ समयाधिकावलिकाशेपायाम्
(३) मानद्वितीयसंग्रह किट्टे रुदय चरमसमयः |
(४) संज्वलनमानस्य जघन्यस्थित्युदीरणा ।
(५) संज्वलनत्रिकस्य स्थितिबन्धोऽन्तमुहूर्त न्यूनचत्वारिंशदिवसाः ।
(६) संज्वलनत्रिकस्य स्थितिसत्त्वमन्तर्मुहूर्त न्यू नाष्टमासाधिकद्विवर्षप्रमितम् ।
(७) ज्ञानावरणदर्शनावरणाऽन्तरायाणां स्थितिसत्त्वं संख्येयानि वर्षसहस्राणि । नामगोत्र वेदनीयानां स्थितिसत्त्वमसंख्ये यवर्षसहस्राणि ।
(९) समयाधिकोदयावलिकागतं समयोनालिकाद्वयबद्धं च नूतनं दलिकं वर्जयित्वा शेषं प्रभूतं मानद्वितीयसंग्रह किट्टिदलं यथागमं मानतृतीयसंग्रह किट्टितया परिणम्यते । तेन मानतृतीयसंग्रह किट्टि दलं मोहनी सर्व दलस्याऽष्टादशचतुर्विंशतिभागकल्पं ( 2 ) जायते ।
(१०) मानतृतीयसंग्रह किट्टिदल मितरसंग्रह किट्टयपेक्षयाऽष्टादशगुणं भवति । (११) एवं मानतृतीयसंग्रह किट्टे रवान्तर किट्टयोऽपीतरसंग्रह किट्टी नामवान्तरकिट्टिभ्योऽष्टादशगुणा भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org