SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ क्रोधतृतीयसंग्रहकिट्टिवेदनविधिः ] किट्टवेदनाद्धाधिकारः [ ३४१ अथ स्थितिसचं दर्शयति — 'ठिइसंत' इत्यादि, क्रोधतृतीय संग्रह किट्टिप्रथमस्थितेः समयाधिकाऽऽवलिकायां शेषायां 'मोहस्य' संज्वलनचतुष्कस्य स्थितिसचं पुनश्चत्वारि वर्षाणि भवति । इदमुक्तं भवति - क्रोधाद्वितीयसंग्रह किट्टिवेदनाद्धाचरमसमये संज्वलनचतुष्कस्य यत् स्थितिसच्चमन्तमुहूर्त न्यून चतुर्मासाधिकपञ्चवर्षाण्यासीत् तत् त्रैराशिकेन साधितैरन्तर्मुहूर्त न्यूनषोडशमासैर्हीनं सत् चतुर्वार्षिकं जायते । यदुक्तं कषायप्राभृतचूर्णौ-संतकम्मं चत्तारि वस्साणि पुष्णाणि ।” इति । शेषाणां त्रयाणां घातिकर्मणां स्थितिसत्त्वं संख्येयानि वर्षसहस्राण्यघातित्रयस्य चाऽसंख्येयवर्षसहस्राणि बोध्यम्, पूर्वमुक्तत्वाद् इह नाऽभिहितम् । “व्यवहारनयश्चलितमेव चलितमिति मन्यते, निश्चयस्तु चलदपि चलितमिति" श्रीव्याख्याप्रज्ञप्तिवृत्तिकारवचनात् निश्चयनयेन व्यवच्छिद्यमानाः संज्वलनक्रोधस्य बन्धोदयोदीरणा युगपद् व्यवच्छिन्नाः । उक्तं च सप्ततिकाचूर्णौ- “ XXX खिवंतो खिवंतो जाव ततियकिट्टिवेदगडाए चरिमसमओ, ताव आगओ । तम्मि समए कोहसंजलणाए बंधोदओदीरणा य जुगवं फिहंति ।" इति । क्रोधस्य तृतीयसंग्रहकट्टिवेदनचरमसमये समयाधिकावलिकागतं दलं समयोनाऽऽवलि - काद्वयबद्धनूतनदलं च विहाय शेषक्रोबदलतो मानप्रथम संग्रह किट्टेः पूर्वावान्तरविद्विष्ववान्तरकिट्टयन्तरोत्पन्नाऽपूर्वावान्तरकिट्टिषु चाऽसंख्येयभागप्रमाणदलं दत्वा शेषवह्वसंख्येयभागमितं दलं मानप्रथम संग्रह किट्टेरधस्ताद पूर्वावान्तरकिट्टिषु संक्रमयति । यदुक्तं सप्ततिकाचूर्णो- "संतकम्मं पि समयूण आवलियबद्धं मोत्तणं सव्वं माणम्मि पक्खित्तं ।" इति । तेन मानप्रथमसंग्रहकिडौ दलं षोडशचतुर्विंशतिभागप्रमाणं ( 2 ) जायते, संज्वलन क्रोधतृतीयसंग्रहकिट्टिसम्बद्धपञ्चदशचतुर्विंशतिभागप्रमाणदलस्य ( 2 ) तदानीं मानप्रथम संग्रह किट्टितया परिणतत्वात् तथा मान प्रथम संग्रह किट्टिदलमितर संग्रह कियपेक्षया षोडशगुणं जायते, इतरसंग्रह किंट्टीनां प्रत्येकं दलस्यैकचतुर्विंशतिभागप्रमाणत्वात् । एवं मानप्रथम संग्रहकिट्टेवान्तरकियोऽपि ज्ञातव्याः ॥ १७५ ॥ क्रोधतृतीय संग्रहकिट्टिवेदनाद्वाप्ररूपणायन्त्रकम् (१) द्वितीयस्थितिस्थक्रोधतृतीयसंग्रह किट्टिप्रदेशाप्रमपकृष्य क्रोध तृतीय संग्रह किया: प्रथमस्थितिं करोति वेदयति च । (२) क्रोधद्वितीयसंग्रह किया द्विसमयोनद्वयावलिकाबद्धनूतनदलं द्वितीयस्थित्यामुदयावलिकागतं चदलं प्रथमस्थितौ विद्यते । (३) शेवं क्रोधद्वितीयसंग्रह किट्टिवेदनवद् बोध्यम्, नवरं संग्रह किट्टीनां प्रदेशाश्रमवान्तर किट्टीश्चाश्रित्य दशपदकमल्पबहुत्वं वाच्यम् । तत्राऽपि लोभतृतीयसंग्रह किट्टिप्रदेशेभ्यः क्रोधतृतीयसंग्रह किट्टिप्रदेशाः संख्येयगुणा वक्तव्याः । एवमवान्तरकियोऽपि । (४) क्रोधस्य तृतीयसंग्रह किट्टैि बध्नाति, मानादीनां तु पूर्ववत् प्रथमाम् । (५) क्रोध तृतीयसंग्रह किट्टयाः प्रथमस्थितेरावलिकाद्वये शेष आगालो व्यवच्छिद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy