________________
३४०]
खवगसेढी
[ गाथा--१७५ जस्स जो जो जहण्णसामी भणितो, सो चेव उक्कोसपदेसउदोरणाए उक्कोससामो गुणियकम्मंसिगो य जाणियव्वो।" इति । तथैव कषायप्राभृतचूर्णावपि"कोहसंजलणस्स जहण्णाणुभागउदोरणा कस्स ? खवगस्स चरिमसमयकोहवेदगस्स। xxx कोहसंजलणस्स उक्कस्सिया पदेसुदोरणा कस्स ? खवगस्स चरिमसमयकोधवेदगस्स।" इति । एवं जघन्याऽनुभागोदयो गुणितकमांशस्य चोत्कृष्टप्रदेशोदयो वाच्यः, संज्वलनत्रिकस्य जघन्याऽनुभागोदीरणोत्कृष्टप्रदेशोदीरणयोः स्वामिना तुल्यत्वाद् यथाक्रमंजघन्यानुभागोदयोत्कृष्टप्रदेशोदययोः स्वामिनाम् । एवमग्रेऽपि मानमाययोर्भाव्यम् । क्रोधतृतीयसंग्रहकिट्टिप्रथमस्थितौ समयाधिकावलिकाशेषायां क्रोधस्य चरमोदयः,ततः परं तस्य क्षपकस्य क्रोधोदयाऽभावात् । उक्त च कषायप्राभृतचूर्णी-"तदियकिहिं वेदेमाणस्स जा पढमहिदी, तिस्से पढमहिदीए आवलियाए समयाहियाए सेसाए चरिमसमयकोधवेदगो जहण्णगो ठिदिउदीरगो।" इति ॥१७४॥
___ अथ क्रोधतृतीयसंग्रहकिट्टया उदयचरमसमये मोहनीयस्य स्थितिबन्धं स्थितिसचं च निरुरूपयिषुराह
चरिमुदये संजलणाणं ठिइबंधो दुमासिओ होइ। ठिइसंतं उण चत्तारि होइ वरिसाणि मोहस्स ॥१७५॥
चरमोदये संज्वलनानां स्थितिबन्धो द्वैमासिको भवति । __ स्थितिसत्त्वं पुनश्चत्वारि भवति वर्षाणि मोहत्य ॥१७५।। इति पदसंस्कारः । ___'चरिमुदये' इत्यादि, 'चरमोदये' क्रोधतृतीयसंग्रहकिट्टिचरमोदये कोधतृतीयसंग्रहकिट्टिप्रथमस्थितौ समयाधिकावलिकाशेषायामित्यर्थः, 'संज्वलनानां' संज्वलनक्रोध-मान-माया-लोभानां स्थितिबन्धो द्वैमासिको भवति, क्रोधद्वितीयसंग्रहकिट्टिवेदनाद्धाचरमसमये यः स्थितिवन्धोऽन्तमुहूर्तन्यूनाऽशीतिदिवसा भवति स्म, स क्रोधतृतीयसंग्रहकिट्टिवेदनकाले त्रैराशिकसाधितैरन्तमुहूतन्यूनविंशतिदिवसीनो भवन् सम्प्रति द्विमासप्रमाणो जायत इत्यर्थः । न्यगादि च कषायप्राभूतचूर्णी-"ताधे ठिदिबंधो संजलणाणं दो मासा पउिपुण्णा।" इति । संज्वलनक्रोधस्य त्वेष जघन्यस्थितिबन्धः । यदभ्यधायि श्रीमन्मलयगिरिपादैः स्थितिबन्धप्ररूपणावसरे"संज्वलनचतुष्टयपुरुषवेदानामनिवृत्तिबादरक्षपकः तद्वन्धस्य यथास्वं चरमस्थितिबन्धे वर्तमानो जघन्यस्थितिबन्धकः तबन्धकेष्वस्यैवातिविशुद्धत्वात् ।” इति । तथा तदानीमेव संज्वलनक्रोधस्य सर्वजघन्याऽनुभागबन्धो जायते । यदुक्तं श्रीमन्मलयगिरिपादैरनुभागबन्धस्वामित्वप्रस्तावे-“पुरुषवेदसंज्वलनचतुष्कयोरनिवृत्तिबादरः क्षपकः स्वबन्धव्यवच्छेदसमये समयमेकं तथा, तस्यापि तद्वन्धकेष्वतिविशुद्धत्वात् ।” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org