________________
क्रोध तृतीयसंग्रह किट्टिवेदनविधिः ]
किट्टिवेदनाद्धाधिकारः
[ ३३९
क्रोध तयसंग्रहकट्टेः प्रथमस्थितिं तु करोति । उक्तं च कषायप्राभृतचूर्णी - " तदो से काले कोहस्स तदिकिट्टीदो पदेसग्गमोक्कड्डियूण पढमडिदिं करेदि ।” इति ।
'वे' ति तदानीमेव 'वेदयति' क्रोधतृतीयसंग्रहकिट्टिमनुभवति च, उक्त च सप्ततिकाचूर्णी - "तओ से काले कोहस्स ततियकिहोओ दलियं कङ्क्षिन्तु ततियकिट्टीए पढमठितिं करेति वेदेति य ।" इति । अत्र नवषष्ट्यधिकशतनम संग्रहगाथा प्रकृतमनुलक्ष्य व्याख्येया । तद्यथा-क्रोथतृतीय संग्रह किट्टिवेदनाद्वायाः प्रथमसमये क्रोधाद्वितीयसंग्रह किट्टेर्द्विसमयोनद्वयावलिकाबद्ध नूतनदलं द्वितीयस्थितौ प्रथमस्थितौ चोदयाऽऽवलिकागतं च दलं सत्कर्मणि विद्यते, ततोऽधिकं न विद्यते, शेषसर्वदलस्य क्रोध तृतीय संग्रह किट्टिमानप्रथम संग्रह किट्टितया परिणतत्वात् ।
अथ क्रोधतृतीय संग्रह किट्टिवेदनविधौ क्रोधद्वितीयसंग्रह किट्टिवेदनविधिमतिदिदिक्षुराह'बोयव्व' इत्यादि, 'द्वितीयावच्च' क्रोधाद्वितीय संग्रह किडिवच्च 'शेष प्ररूपणा' बन्धोदयनाशसंक्रमाऽपूर्वावान्तरकिट्टि निर्वृच्यवान्तरकिट्टयल्पबहुत्वादिप्ररूपणा 'ज्ञेया' ज्ञातव्या, विशेषाभावात् । यदभाणि कषायप्राभृतचूण- "जो विदियकिहिं वेदयमाणस्स विधी, सो चेव विधी तदिकिहिं वेदयमाणस्स वि कायव्वो ।" इति । नवरं संग्रह किट्टीनां प्रदेशाग्रमवान्तरकिट्टीचाश्रित्य दशपदकमल्पबहुत्वं ज्ञेयम् । तत्राऽपि लोभतृतीयसंग्रह किट्टेः प्रदेशेभ्यः क्रोधतृतीयसंग्रह किट्टेः प्रदेशाः संख्यातगुणा भवन्ति । एवमवान्तरकियोऽपि ।
एकसप्तत्यधिकशततम संग्रहगाथा प्रस्तुतमनुलक्ष्य भावनीया । तथाहि - क्रोधतृतीयसंग्रह किट्टि - मनुभवन् क्षपकः क्रोधस्य तृतीयसंग्रहकिद्धिं बध्नाति, मानादीनां तु प्रथमसंग्रहकहिं बध्नाति ।
एवंविधान को तृतीयसंग्रह किट्टिं वेदयतो जीवस्य क्रोध तृतीयसंग्रह किट्टि प्रथमस्थितौ द्वयावकाशेषायां 'वेइज्ज' ०' इत्यादि पञ्चषष्ट्यधिकशततम संग्रहगाथा प्रकृतमाश्रित्य व्याख्येया । तथाहि-क्रोधतृतीयसंग्रह किट्टि प्रथमस्थितेरावलिकाद्वये शेवयागालो व्यवच्छिद्यते । ततः समयोनाऽऽवलिकाप्रमाणां प्रथमस्थितिमनुभूय क्रोधतृतीयसंग्रह किट्टि प्रथमस्थितेः समयाधिकायामावलिकायां शेषायां क्रोधस्य जघन्यस्थित्युदीरणा क्रोध तृतीयसंग्रहकिट्टेव चरमोदयो जायते । इत्थं त्रिः क्रोधस्य जघन्यस्थित्युदीरणा क्रोधकिट्टिवेदनाद्वायां जाता ।
क्रोधतृतीयसंग्रहकिट्टिवेदनचरमसमय एव संज्वलनक्रोधस्य जघन्यानुभागोदीरणा गुणितकर्माशस्य च क्षपकस्य संज्वलन क्रोधस्योत्कृष्ट प्रदेशोदीरणा च भवति । प्रत्यपादि च कर्मप्रकृतिचूर्णौ — “पंचविहअंतराइयकेवलणाणकेवलदंसणावरणचउन्हं संजलणाणं
वहं णोकसायाणं एवासि वोसाए पगईणं अप्पप्पणो उदीरणंते जहणिया अणुभागउदीरणा होति । xxx घातिकम्माणं सव्वेसिं अणुभागउदीरणम्मि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org