________________
३४२ ]
खवगसेढी
। गाथा--१७६ पूर्वतोऽनुवर्तमानं क्रोधतृतीयसंग्रहकिट्टिवेदनाद्धाप्ररूपणायन्त्रकम् (६) क्रोधतृतीयसंग्रहकिट्टयाः प्रथमस्थितौ समयाधिकावलिकाशेषायाम् । (क) क्रोधतृतीयसंग्रहकिट्टयाश्चरमोदयः । (ख) क्रोधस्य जघन्यस्थित्युदीरणा जघन्यस्थित्युदयश्च । (ग) क्रोधस्य जघन्यानुभागोदीरणा जघन्यानुभागोदयश्च । (घ) गुणितकांशस्य जीवस्य क्रोधस्योत्कृष्टप्रदेशोदीरणोत्कृष्प्रदेशोदयश्च । (ङ) संज्वलनानां स्थितिबन्धो द्वैमासिकः । (च) संज्वलनक्रोधस्य जयन्यस्थितिबन्धः । (छ) संज्वलनक्रोधस्य जघन्याऽनुभागबन्धः । (ज) संज्वलनानां स्थितिसत्त्वं चत्वारि वर्षाणि । (झ) निश्चयनयमतेन संचलनक्रोधस्य बन्धोदयोदीरणा व्यवच्छिद्यमाना युगपद् व्यवच्छिन्नाः । (ब) समयाधिकोदयावलिकागतदलं समयोनद्वयावलिकाबद्धनूतनदलं च वर्जयित्वा शेषक्रोधदलस्य
मानप्रथमसंग्रह किट्टित्वेन परिणामः । तेन मानप्रथमसंग्रहकिट्टिदलं मोहनीयसकलदलस्य षोडशचतुर्विंशतिभागकल्पं (३४) जायते । एवं मानप्रथमसंग्रहकिट्टेरवान्तरकिट्टयोऽपि बोध्याः ।। अथ क्रोधतृतीयसंग्रहकिट्टिवेदनविधि परिपाल्याऽनन्तरसमये यत्करोति, तदभिधित्सुराहसेकाले माणपढमकिट्टि ओकड्ढिऊण पढमठिइं। कुणए वेयइ सवो य विही कोहपढमव्व णायब्वो ॥१७६॥ (गीतिः)
अनन्तरकाले मानप्रथमकिट्टिमपकृष्य प्रथमस्थितिम् । करोति वेदयति सर्वश्च विधिः क्रोधप्रथमावज्ज्ञातव्यः ॥१७६।। इति पदसंस्कारः ।
'सेकाले' इत्यादि, 'अनन्तरकाले' क्रोधतृतीयसंग्रहकिट्टिवेदनाद्धासमाप्तेरनन्तरसमये 'मानप्रथमकिट्टि' द्वितीयस्थितिस्थमानप्रथमसंग्रहकिट्टिप्रदेशाग्रमपकृष्योदयसमयादारभ्याऽसंख्येयगुणक्रमेण मानवेदनाद्धायाः साधिकत्रिभागे मानप्रथमसंग्रहकिट्टिवेदनकालतस्त्वावलिकयाऽधिकासु स्थितिषु निक्षिपन् 'प्रथमस्थिति' मानप्रथमसंग्रहकिडिप्रथमस्थिति 'करोति' निर्वर्तयति । यदवादि कषायप्राभतचूर्णी-“से काले माणस्स पढमकिहिमोकड्डियूण पढमहिदि करेदि ।" इति । 'वेयई' त्ति तदानीमेव मानप्रथमसंग्रहकिट्टि च 'वेदयति' अनुभवति । उक्तं च सप्ततिकाचूर्णी-"तओ से काले माणस्स पढमकिटीओ दलिअं ओकढित्तु पढमठिति करेति वेदेइ ताव, जाव अंतोमुहुत्तं ।” इति ।
तदानीं प्रथमस्थितौ यत् क्रोधदलमुदयावलिकायां विद्यते, तत् प्रतिसमयं वेद्यमानमानप्रथमसंग्रहकिट्टौ स्तिबुकसंक्रमेण संक्रम्य विनाशयति । यत्पुनर्द्वितीयस्थितौ द्विसमयोनावलिकाद्वयेन बद्धदलं विद्यते, मानप्रथमसंग्रहकिट्टि वेदपमानेन तावता कालेन पुरुषवेदवत् संक्रमेण तत् संक्रमयता जीवेन चरमप्रक्षेपेऽसंक्रम्यमाणे संज्वलनक्रोधस्य जघन्यस्थितिसचं जघन्याऽनुभागसत्वं च प्राप्यते । उक्तं च कषायप्राभूतचूर्णी-"कोहसंजलणस्स जहण्णहिदिविहत्ती कस्स ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org