SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ खवासेढी [गाथा-१७२ - यन्त्रकम् (गाथा-१७०) (१) क्रोधद्वितीयसंग्रहकिट्टिवेदनाद्धाप्रथमसमयतः प्रभृति क्रोधद्वितीयसंग्रहकिट्टया अधस्तनीरुपरि ___ तनीश्चाऽसंख्येयभागप्रमाणा अवान्तरकिट्टीवर्जयित्वा शेषा अवान्तरकिट्टीबध्नाति वेदयति च । (२) बध्यमानावान्तरकिट्टित उदयमाना अवान्तरकिट्टयो विशेषाधिका भवन्ति । (३) प्रतिसमयमनुसमयापवर्तनाघातेनोपरितनाऽसंख्येयभागप्रमाणा अवान्तरकिट्टीर्घातयति । (४) क्रोधप्रथमकिट्टिवेदकवत् संग्रहकिट्टयन्तरेष्यवान्तरकिट्टयन्तरेषु चाऽपूर्वावान्तरकिट्टीनियर्त यति । (५) एकादशानां संग्रहकिट्टीनां प्रदेशाल्पबहुत्वमवान्तरकिट्टयल्पबहुत्वञ्च चतुर्नवतितमादिगाथाभिर्यथाऽ भिहितम् , तथैवा-ऽत्र बोध्यम् , नवरं लोभतृतीयसंग्रहकिट्टितः क्रोधद्वितीयसंग्रह किट्टयाः प्रदेशा ____ अवान्तरकिट्टयश्च संख्येयगुणा वाच्या ।। (६) क्रोधद्वितीयसंग्रहकिट्टयाः प्रथमस्थित्यां द्वयावलिकाशेषायामागालो व्यवच्छिद्यते। (७) क्रोधद्वितीयसंग्रह कियाः प्रथमस्थितौ समयाधिकाथलिकाशेषायां क्रोधस्य जघन्यस्थित्युदीरणा भवति । (८) क्रोधद्वितीयसंग्रह किट्टयाः प्रथमस्थित्यां समयाधिकावलिकाशेषायां क्रोधद्वितीयसंग्रहकिट्टयाश्चर मोदयः । अथ चरमोदये सप्तानामपि कर्मणां स्थितिबन्धमभिधित्सुराह चरिमे बंधो मोहस्स देसऊणा दिणा असीई उ। घाईणदपुहुत्तं पराण संखियसहस्सवरिसाइं ॥१७२॥ (गीतिः) चरिमे बन्धो मोहस्य देशोना दिना अशीतिस्तु । घातिनामब्दपृथक्त्वं परेषां संख्यसहस्रवर्षाणि ॥१७२।। इति पदसंस्कारः । 'चरिम' इत्यादि, 'चरमें क्रोधद्वितीयसंग्रहकिट्टयु दयचरमसमये क्रोधद्वितीयसंग्रहकिट्टिप्रथमस्थितौ समयाऽधिकाऽऽवलिकाशेषायामित्यर्थः, 'मोहस्य' संज्वलनचतुष्कस्य 'बन्धः' 'स्थितिबन्धो' 'देशोनाः' अन्तमुहर्तन्यूना 'अशीतिस्तु' अशीतिसंख्याकास्तु 'दिनाः' दिवसा भवति, क्रोधप्रथमसंग्रहकिट्टिवेदनचरमसमयप्ररूपणाऽवसरे द्वितीयसंग्रहकिट्टिवेदनकाले स्थितिबन्धस्याऽन्तमुहर्तन्यूनविंशतिदिनप्रमाणहानेस्त्रैराशिकेन साधितत्वात् । 'घाईण' इत्यादि, घातिनां कर्मणां स्थितिबन्धो 'अब्दपृथक्त्वं' वर्षपृथक्त्वं भवति । अत्र घातिशब्देन ज्ञानावरणदर्शनावरणाऽन्तराया ग्राह्याः, मोहनीयबन्धस्य पृथगभिहितत्वात् । अयं भावः--मोहनीयस्य स्थितिबन्धो विशेषतो देशोनाऽशीतिदिवसाः प्रोक्तः । इह तु सामान्येन घातिकर्मणां स्थितिबन्ध उच्यते, तेन मोहनीयस्य स्थितिबन्धो देशोनाऽशीतिदिवसा भवति, वर्षपृथक्त्वं तु धातिवचनेन ज्ञानावरणदर्शनावरणाऽन्तरायाणां जायते, अन्यथा पृथग मोहनीयस्थितिबन्धविधानस्य वैयर्थ्यं प्रसज्येत । क्रोधप्रथमसंग्रहकिट्टिवेदनचरमसमये घातित्रयस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy