________________
क्रोधद्वितीयसंग्रहकिट्टिवेदनाद्वाऽन्ते बन्धसत्ते] किट्टिवेदनाद्धाधिकारः
[ ३३७ स्थितिबन्धोऽन्तमुहर्तन्यूनदशवर्षप्रमाण आसीत् , स क्रोधद्वितीयसंग्रहकिट्टिवेदनकाले संख्यातेषु स्थितिबन्धेषु गतेषु क्रोधद्वितीयसंग्रहकिट्टिवेदनचरमसमये वर्षपथक्त्वमात्रो जायते ।
__'पराणं' इत्यादि, 'परेषां' त्रयाणामघातिकर्मणां नाम-गोत्र-वेदनीयलक्षणानां स्थितिबन्धः 'संख्यसहस्रवर्षाणि भवति, क्रोधप्रथमसंग्रहकिट्टिवेदनचरमसमयतः प्रतिस्थितिबन्धमघातिकर्मणां स्थितिवन्धो हीयमानः सन्निदानीमपि संख्यातसहस्रवर्षप्रमाणो भवति । उक्तं च कषायप्राभृतचूर्णी-"ताधे संजलणाणं ठिदिबंधो वे मासा वीसं च दिवसा देसूणा। तिण्हं घादिकम्माणं हिदिबंधो वासपुधत्तं । सेसाणं कम्माणं हिदिबंधो संखेज्जाणि वस्ससहस्साणि । "इति ॥१७२॥
अथ क्रोधद्वितीयसंग्रहकिट्टिवेदनाद्धाचरमसमये सप्तानामपि कर्मणां स्थितिसत्चमभिधित्सुराहमोहस्स देसऊणा चउमासऽहिअपणहायणा घाईणं । संखसहस्सवरिसगाइं इयराणं असंखबरिसा संतं ॥१७३॥ (आर्यागीतिः)
मोहस्य देशोनाश्चतुर्मासाधिकपञ्चहायना धातिनाम् । सङ्ख्यसहस्रवर्षाणीतरेषामसङ्ख्यवर्षाः सत्त्वम् ॥१७३।। इति पदसंस्कारः।
'मोहस्स' इत्यादि, क्रोधद्वितीयसंग्रहकिट्टिवेदनादायाश्चरमप्तमये 'मोहस्य' संज्वलनचतुष्कस्य सच' स्थितिसत्त्वं चतुर्मासाधिकपञ्चहायनाः' च भिर्मासैरधिकानि पश्चवर्षाणि जायते, क्रोधप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमयप्ररूपणाऽवसरे क्रोधद्वितीयसंग्रहकिट्टिवेदनकालेऽन्तमुहूतन्यूनपोडशमासैः स्थितिसत्त्वस्य हानेस्त्रैराशिकेन साधितत्वात् । अयं भावः-क्रोधप्रथमसंग्रहकिट्टिवेदनचरमसमये मोहनीयस्य यस्थितिमत्वमन्तमुहर्तन्यूनाऽष्टमासाधिकषड्वर्षप्रमाणमासीत् , तत् क्रोधद्वितीयसंग्रहकिट्टिवेदनकालेऽन्तमुहूर्तोनपोडशमासै_नं सदन्तमुहूर्तन्यूनचतुर्मासाऽधिकपञ्चवर्षप्रमाणमिदानीं जायते ।
_ 'घाईणं' इत्यादि, तथा 'घातिनां ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणां स्थितिसचं 'सङ्खयसहस्रवर्षाणि' संख्यातसहस्रवर्षप्रमितं विद्यत इति शेषः, 'परेषाम्' अघातिकर्मणां-नामगोत्र-वेदनीयानां स्थितिसचम् 'असंख्यवर्षाः' असंख्यातवार्षिकं विद्यते । क्रोधप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमये घात्यघातिकर्मणां यस्थितिसत्त्वं क्रमेण संख्येयासंख्येयवर्षाग्यासीत् , तत् संख्यातस्थितिघातसहस्र _तितं सत् क्रोधप्रथमसंग्रहकिट्टिवेदनचरमसमयाऽपेक्षया घात्यघातिनां क्रमेण संख्येयाऽसंख्येषगुणहीनं भवदपि संख्येयाऽसंख्येयवर्वतो न्यूनं न भवतीत्यर्थः । उक्तं च कषायमाभृतचूण -"संजलणाणं लिदिसंतकम्मं पंच वस्साणि चत्तारि मासा अंतोमुहुत्तणा । तिण्हं घादिकम्माणं हिदिसंतकम्मं संखेन्जाणि वस्ससहस्साणि । णामागोदवेदणोयाणं तकम्ममसंखेजाणि वस्साणि ।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org