________________
वेद्यमान संग्रह किट्टिकाले बन्धः ]
किट्टवेदनाद्धाधिकारः
santrata कसायरस अणुहवए तु जं किट्टिं ।
तं चैव बंधइ पराणं पढमं बंधए न परं ॥ १७१ ॥
[ ३३५
वेद्यमानस्य कपायस्यानुभवति तु यां किट्टिम् ।
तां चैव बध्नाति परेषां प्रथमां बध्नाति न पराम् || १७१ || इति पदसंस्कारः । 'वेइज्ज० ' इत्यादि, 'वेद्यमानस्य' अनुभूयमानस्य तु 'कपायस्य' क्रोव - मान-माया-लोभानामन्यतमकपायस्य 'यां किट्टि प्रथम संग्रह किट्टिद्वितीयसंग्रह किट्टितृतीयसंग्रह किवीनामन्यतमां यां संग्रहकिट्टिमनुभवति, तां चैव संग्रहकिद्धिं बध्नाति । 'पराणं' इत्यादि, 'परेपाम्' अवेद्यमानक पायाणां प्रथमां संग्रहकिट्टिं बध्नाति, न 'परां' द्वितीय संग्रह किट्टितृतीयसंग्रह किट्टिलक्षणामन्याम् । उक्तञ्च कषायप्राभृतचूर्णो- “जस्स जं किहिं वेदयदि, तस्स कसायस्स तं किहिं बंधदि, सेसाणं कसायाणं पढमकिट्टीओ बंधदि ।" इति । इयं च संग्रहगाथा । तेन प्रकृतेऽस्याः संग्रहगाथाया व्याख्यानं दर्श्यते - क्रोतिीय संग्रहकहिं वेदयन् क्षपकः क्रोधस्य द्वितीयसंग्रह किट्टि बध्नाति, मानादीनां तु प्रथम संग्रह किटिं बध्नाति । एवमग्रे ऽपि यथास्थानं भावनीयम् ।
I
अनेन विधिना क्रोधद्वितीयसंग्रह किट्टि वेदयतो जीवस्य क्रोधाद्वितीयसंग्रह किट्टिप्रथमस्थितौ द्वयावलिकाशेपायां 'वेइज्जं ० ' इत्यादि पञ्चषष्ट्यधिकशततमगाथा प्रस्तुतमाश्रित्य व्याख्यायेत । तथा हि- क्रोधद्वितीयसंग्रह किट्टि प्रथमस्थितौ द्वयावलिकाशेपायामागालो व्यवच्छिद्यते । अभाणि च कषायप्राभृतचूर्णी - "कोहस्स विदियकिहिं वेदयमाणस्स जा पढमट्ठिदी, तिस्से पढ़दिए आवलिय-पडिआवलियाए सेसाए आगाल - पडिआगालो वोच्छिष्णो ।” इति । न च किट्टिकरणात्प्रभृति मोहनीयकर्मण उद्वर्तना न भवतीत्युक्त मेकोत्तरशततमगाथायाम् । तेन प्रस्तुत प्रथमस्थितितो द्वितीयस्थितौ प्रदेशगमनलक्षणस्य प्रत्यागालस्य व्यवच्छेदो व्यर्थः, प्रवृत्तस्यैव विच्छेदस्य न्याय्यत्वादिति वाच्यम्, द्वितीयस्थितितः प्रथमस्थितावपवर्तनया दलिerssanनस्य संभवेन तन्निषेवस्याssवश्यकत्वेनाऽऽगालव्यवच्छेदस्य न्याय्यत्वेन तत्साहचर्यात् पाठमङ्गभयाद्वा चूर्णिकाराणां प्रत्यागालोक्तिसंभवात् । ततः समयोनाऽऽवलिकायां गतायां क्रोधप्रथम संग्रह किट्टि प्रथमस्थितौ समयाऽधिकाऽऽवलिकाशेषायां प्रथमस्थितिचरम निषेतः क्रोधमुदये प्रक्षिपतः क्षपकस्यैक स्थितिप्रमाणा क्रोधस्य जघन्य स्थित्युदीरणा भवति । तदानीं चैव द्वितीयसंग्रह किडिचरमोदयः प्रवर्तते, ततः परं क्रोधतृतीयसंग्रह किट्टिवेदनात् । उक्तं च कषायप्राभृतचूण - "तिस्से चेव पढमहिदीए समयाहियाए आवलियाए सेसाए ताहे कोहस्स विदियकिट्टीए चरिमसमयवेदगो ।" इति ॥ १७१ ॥
55 समाहितं च जयधवलाकारैरपि जइ वि एत्थ किट्टीकरणद्वापारंभप्पहूडि मोहरणीयस्स उड्डणाभावेरण पढमट्ठिदीदो विदियट्टिदिग्मि पदेससंचारो गत्थि, तो वि विदियट्ठिदोदो पढमट्ठिदीए श्रोडिजमाप देगस्स एन्हिमरणागमणं पेक्खियूरणागालपडिश्रागालवोच्छेदो गिट्टिो |" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org