________________
३३४ ]
खवगसेढी
[ गाथा-१७० च पूर्वपदगतप्रदेशान् पल्योपमाऽसंख्येयभागेन खण्डयित्वैकखण्डेन बोध्यम् । एवमग्रेऽपि स्वस्थाने वक्तव्यम् । ततो विशेषाधिकाः प्रदेशा मानस्य तृतीयसंग्रहकिट्टावभिधातव्याः । ततो विशेषाधिकाः प्रदेशाः क्रोधस्य तृतीयसंग्रहकिट्टौ निश्चेतव्याः । आधिक्यं च पूर्वपदगतप्रदेशानावलिकाऽसंख्येयभागेन भक्त्वैकखण्डेन ज्ञातव्यम् । एवमग्रेऽपि परस्थाने वक्तव्यम् । ततो विशेषाधिकाः प्रदेशा मायायाः प्रथमसंग्रहकिट्टी वक्तव्याः । ततो विशेषाधिकाः प्रदेशा मायाया द्वितीयसंग्रहकिट्टी निश्चेतव्याः । ततो विशेषाधिकाः प्रदेशा मायायास्तृतीयसंग्रहकिट्टौ भणितव्याः । ततो विशेषाधिका लोभस्य प्रथमसंग्रहकिट्टौ मन्तव्याः। ततोऽपि विशेषाधिका लोभस्य द्वितीयसंग्रहकिट्टो वाच्याः। ततोऽपि लोभतृतीयसंग्रहकिट्टौ प्रदेशा विशेषाधिका अवगन्तव्याः । ततः सङ्ख्यातगुणाः प्रदेशाः क्रोधस्य द्वितीयसंग्रहकिट्टी निगदितव्याः, गुणकारश्चात्र चतुर्दशराशिः । तथाहि-लोभतृतीयसंग्रहकिट्टौ मोहनीयदलस्य चतुर्विंशतिभागप्रमाणं दलं विद्यते । क्रोधद्वितीयसंग्रहकिट्टावपि स्वदलं मोहनीयसकलदलस्य चतुर्विशतिभागप्रमाणं विद्यते स्म, त्रयोदशचतुर्विशतिभागप्रमाणं च क्रोधप्रथमसंग्रहकिट्टिदलं क्रोधद्वितीयसंग्रहकिट्टयां संक्रमेण प्रक्षिप्तम् , तेन तस्यां चतुर्दशचतुविंशतिभागप्रमितं दलं जायते । तच्चाऽधरतनराशिनकचतुर्विंशतिभागलक्षणेन विभज्यते, तदा गुणकसंख्या चतुर्दश प्राप्यते ।। ____संग्रहकिट्टीनामवान्तरकिट्टयोऽप्यनेनाऽल्पबहुत्वक्रमेण वक्तव्याः, दलिकानुसारेणैवाऽवान्तरकिट्टिराशिदर्शनात् । यदवादि कषायप्राभृतचूर्णी-“कोधविदियकिट्टीए पढमसमयवेदगस्स एक्कारससु संगहकिट्टीसु अंतरकिटोणमप्पाबहुअंवत्तहस्सामो । तं जहासव्वत्थोवाओ माणस्स पढमाए संगहकिट्टीए अंतरकिटोओ, विदियाए संगहकिट्टीए अंतरकिटोओ विसेसाहियाओ, तदियाए गहकिट्टीए अंतरकिट्टीओ विसेसाहियाओ कोहस्स तदियाए संगहकिटीए अंतरकिटीओ विसेसाहियाओ । मायाए पढमाए संगहकिट्टीए अंतरकिटीओ विसेसाहियाओ, विदियाए संगहकिटीए अंतरकिटोओ विसेसाहियाओ, तदियाए संगहकिटोए अंतरकिटोओ विसेसाहियाओ । लोभस्स पढमाए संगहकिट्टीए अंतरकिटीओ विसेसाहियाओ, विदियाए संगहकिट्टीए अंतरकिटीओ विसेसाहियाओ, तदियाए संगहकिटोए अंतरकिट्टीओ विसेसाहियाओ, कोहस्स विदियाए संगहकिट्टीए अंतरकिट्टीओ संखेज्जगुणाओ । पदेसग्गस्स वि एवं चेव अप्पाबहुअं।” इति ॥१७०॥
ननु क्रोधद्वितीयसंग्रहकिटेर्वेदकस्य बन्धः “पढमव्व” इत्यनेनातिदिष्टः, तत्र क्रोधप्रथमसंग्रहकिट्टि वेदयन् सर्वेषां कषायाणां प्रथमसंग्रहकिट्टि बध्नाति स्म । अत्र किं द्वितीयसंग्रहकिट्टि वेदयन् सर्वेषां द्वितीयसंग्रहकिट्टि बध्नाति ? उताऽस्ति कश्चिद् विशेषः ? इति जिज्ञासायां संग्रहगाथया भणति
Jain Education International
• For Private & Personal Use Only
www.jainelibrary.org