________________
क्रोधद्वितीयसंग्रहकिट्टिवेदनाद्वायां संक्रमादिः ] किट्टिवेदनाद्धाधिकारः
[ ३३३ संग्रहकिटौ मायाप्रथमसंग्रहकिट्टौ च संक्रमयति । मानतृतीयसंग्रहकिट्टिदलं मायाप्रथमसंग्रहकिट्टावेव संक्रमयति । मायाप्रथमसंग्रहकिट्टिदलं मायाया द्वितीयसंग्रहकिट्टी तृतीयसंग्रहकिट्टौ लोभप्रथमसंग्रहकिट्टौ च सङ्क्रमयति, मायाया द्वितीयसंग्रहकिट्टिदलं तृतीयसंग्रहकिट्टौ लोभप्रथमसंग्रहकिट्टौ च संक्रमयति । मायायास्तृतीयसंग्रहकिट्टिदलं लोभस्य प्रथमसंग्रहकिट्टयामेव संक्रमयति, लोभस्य प्रथमसंग्रहकिट्टिदलं लोभस्य द्वितीयसंग्रहकिट्टौ तृतीयसंग्रहकिट्टौ च संक्रमयति । लोभद्वितीयसंग्रहकिट्टिदलं लोमतृतीयसंग्रहकिट्टौ संक्रमयति । लोभतृतीयसंग्रहकिट्टिदलं त्वन्यत्र न संक्रमयति, अनानुपूर्वीसंक्रमाऽभावात् । न्यगादि च कषायप्राभूतचूौँ-"एत्थ संकममाणयस्स पदेसग्गस्स विधिं वत्तइस्सामो । तं जहा-कोहविदियकिट्टीदो पदेसग्गं कोहतदियं च माणपढमं च गच्छदि । कोहस्स तदियादो किटोदोमाणस्स पढमं चेव गच्छदि । माणस्स पढमादो किटोदो माणस्स विदियं तदियं मायाए पढमं च गच्छदि। माणस्स विदियकिट्टीदो माणस्स तदियं च मायाए पढमं च गच्छदि । माणस्स तदियकिट्टीदो मायाए पढमं गच्छदि । मायाए पढमादो पदेसग्गं मायाए विदियं तदियं च लोभस्स पढमकिडिं च गच्छदि। मायाए विदियादो किट्टीदो पदेसग्गं मायाए तदियं लोभस्स पढमं च गच्छदि । मायाए तदियादो किट्टीदो पदेसग्गं लोभस्स पढमं गच्छदि । लोभस्स पढमादो किटोदो पदेसग्गं लोभस्स विदियं तदियं च गच्छदि । लोभस्स विदियादी पदेसग्गं लोभस्स तदियं गच्छदि।" इति ।
इदमत्राऽवधेयम-"जं संगहकिहि" इत्यादि सप्तविंशत्यधिकशततमगाथाया व्याख्यानात् क्रोधद्वितीयसंग्रहकिट्टितः क्रोधतृतीयसंग्रहकिट्टावितरसंग्रहकिट्टयपेक्षया संख्यातगुणं दलं संक्रमयति, शेषाऽल्पबहुत्वं च पूर्ववत् स्वयमेवोहनीयम् , सुगमत्वान्नाभिधीयते ।
यथा क्रोधप्रथमसंग्रहकिट्टि वेदयन् संग्रहकिट्टयन्तरेषु निष्पाद्यमानाऽपूर्वाऽवान्तरकिट्टितोऽवान्तरकिट्टयन्तरेषु निष्पाद्यमानाऽपूर्वावान्तरकिट्टीरसंख्येयगुणा निवर्तयति स्म, तासु च दलनिक्षेपं करोति स्म, तथैव क्रोधद्वितीयसंग्रहकिट्टिवेदकोऽपि करोति ।
संग्रहकिट्टीनां प्रदेशानामवान्तरकिट्टीनां चाऽल्पबहुत्वं प्रथमसंग्रहकिट्टिवेदकवज्ज्ञातव्यम् , नवरमत्रैकादशसंग्रहकिट्टीराश्रित्य प्रदेशानामवान्तरकिट्टीनां चाऽल्पबहुत्वमभिधातव्यम् , तत्राऽपि क्रोधद्वितीयसंग्रहकिटेर्दलमितरसंग्रहकिट्टितः संख्यातगुणं वक्तव्यम् , क्रोधप्रथमसंग्रहकिट्टिबह्वसंख्येयभागमात्रदलस्य तत्र प्रक्षिप्तत्वात् । एवमवान्तरकिट्टयोऽपि वाच्याः। तथाहि-मानस्य प्रथमसंग्रहकिट्टी प्रदेशाः स्तोका भवन्ति । ततो विशेषाधिका मानस्य द्वितीयसंग्रहकिट्टी भवन्ति, आधिक्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org