________________
३३२ ]
खवगसेढी
[गाथा-१७०
क्रोधद्वितीयसंग्रहकिट्टिवेदनप्रथमसमयमाश्रित्य यन्त्रकम् (१) क्रोधद्वितीयसंग्रहकिट्टिवेदनाद्धायाः प्रथमसमय उदयसमयादारभ्य स्ववेदनकालत आवलिकयाऽधिकायां
स्थितौ दलमसंख्येयगुणक्रमेण प्रक्षिप्य क्रोधद्वितीयसंग्रह किट्टयाः प्रथमस्थितिं करोति ।। (२) कालविवक्षयाऽऽवलिकाप्रमाणा निषेकविवक्षया तु समयोनाऽऽवलिकाप्रमाणा क्रोधप्रथमसंग्रहकिट्टिप्रथम
स्थितिरवशिष्यते। (३) उदयनिषेकगतं क्रोधप्रथमसंग्रहकिट्टिदलं द्वितीयसंग्रहकिट्टितया परिणतम् । (४) प्रथमस्थित्यामुदयावलिकागतं द्वितीयस्थितौ च द्विसमयोनद्वयावलिकाबद्धं क्रोधप्रथमसंग्रहकिट्टिदलमव
शिष्यते। (५) स्थितिषु वेद्यमानाऽवेद्यमानसंग्रहकिट्टीनां प्रदेशावस्थानमनुभागावस्थानं चाऽष्टाधिकशततमैकोनविंशत्युत्तरशततमगाथोक्तमत्राऽपि बोध्यम् ।
क्रोधद्वितीयसंग्रहकिट्टिप्रथमसमयतः प्रभृति स्ववेदनकालचरमसमयं यावत् क्रोधप्रथमसंग्रहकिट्टिवेदकविधिमतिदिदिक्षुराह--
बंधो उदओ णासो संकमणमपुवकिट्टिणिवत्ती। किट्टीअप्पाबहुअं पोसथोवबहुअं य पढमव्व ॥ १७० ॥ (गीतिः)
बन्ध उदयो नाशः संक्रमणमपूर्वकिट्टिनिर्वृत्तिः ।
किट्टयल्पबहुत्वं प्रदेशस्तोकबहुत्वं च प्रथमावत् ।। १७० ॥ इति पदसंस्कारः। 'बंधो' इत्यादि, बन्ध उदयो नाशः संक्रमणमपूर्वकिट्टिनित्तिः किट्टयल्पबहुत्वं प्रदेशाल्पबहुत्वं च 'प्रथमावत्' क्रोधद्वितीयसंग्रहकिट्टिवेदनकाले क्रोधप्रथमसंग्रहकिट्टिवेदनका लवज्ज्ञातन्यम् । तथाहि-क्रोधद्वितीयसंग्रहकिटेपरितनीरधस्तनीश्वऽसंख्येयभागप्रमाणा अवान्तरकिट्टीवर्जयित्वा शेषा मध्यमाः स्वस्वरूपेणाऽवान्तरकिट्टय उदयन्ति, बध्यन्ते च । तत्रापि बन्धत उदये विशेषाधिका अवान्तरकिट्टयो भवन्ति, तथा बन्धोदययोर्जघन्योत्कृष्टतोऽल्पबहुत्वं गोमूत्रिकया वक्तव्यम् । .. अवान्तरकिट्टिनाशोऽपि प्रथमसंग्रहकिट्टिवद् बोध्यः । इदमुक्त भवति-यथा क्रोधप्रथमसंग्रहकिट्टिवेदकः सर्वसंग्रहकिट्टीनामुपरितनीरसंख्येयभागमिता अवान्तरकिट्टीशियति स्म, तथा क्रोद्वितीयसंग्रहकिट्टिवेदकोऽपि संग्रहकिट्टीनामुपरितनीरसंख्येयभागप्रमाणा अवान्तरकिट्टीविनाशयति ।
क्रोधद्वितीयसंग्रहकिट्टिवेदकस्य संक्रमोऽपि क्रोधप्रथमसंग्रहकिट्टिवेदकवज्ज्ञातव्यः । तथाहिक्रोधद्वितीयसंग्रहकिट्टिदलं क्रोधतृतीयसंग्रहकिट्टी मानप्रथमसंग्रहकिट्टौ च संक्रमयति । क्रोधतृतीयसंग्रहकिट्टिदलंमानप्रथमसंग्रहकिट्टावेव संक्रमयति । मानप्रथमसंग्रहकिट्टिदलंमानस्य द्वितीयसंग्रहकिट्टी तृतीयसंग्रहकिट्टौ मायायाश्च प्रथमसंग्रहकिट्टी संक्रमयति । मानद्वितीयसंग्रहकिट्टिदलं मानतृतीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org