________________
क्रोधप्रथम संग्रह किट्टेः शेषदलम् ]
किट्टिवेदनाद्धाधिकारः
[ ३३१
गाथा प्रस्तुतमाश्रित्य व्याख्यायते - क्रोधप्रथम संग्रह किट्टिवेदनाद्वाचरमसमये समयोन यावलिकाबद्धनूतनदलं समयाधिकाऽऽवलिकागतं च प्रदेशाग्र मुक्त्वा क्रोधप्रथम संग्रह किट्टयाः सर्वदलं संङ्कान्तम् । अथ क्रोधद्वितीयसंग्रह किट्टिवेदनाद्वाप्रथमसमये नूतनबद्धदलमपिं यथायोग्यं संक्रमयति, तेन द्विसमयोनद्वयावलिकाबद्धनूतनदलं क्रोधप्रथम संग्रह किट्टेर्द्वितीयस्थितौ विद्यते । तथा क्रोधप्रथम संग्रहकिट्टिप्रथमस्थितिरुदयावलिकाप्रमाणाऽवशिष्यते, प्रागुक्तसमयाधिकावलिकात उदयेनैकस्य निषेकस्य क्षीणत्वात् । इत्थं क्रोधप्रथम संग्रह किया द्विसमयोनद्वयावलिकाबद्धनूतनद्लमुदयावलिका गतं च दलं क्रोधद्वितीय संग्रहकिट्टिवेदनाद्वाप्रथमसमये विद्यते । उक्तं च कषायप्राभृतचूर्णी"ताधे कोहस्स पढमकिट्टीए संतकम्मं दो आवलियबंधा दुसमयूणा सेसा, जंच उदयावलियं पवि, तं च सेसं पढमकिट्टीए ।” इति । प्रथमस्थितेरुदयाऽऽ-वलिकागतं च दलं क्रमशः स्तिबुकसंक्रमेण वेद्यमानसंग्रह किट्टौ संक्रम्य नाशयति । एवमग्रे ऽपि शेषाणां क्रोधद्वितीय संग्रह किट्टिप्रभृतिलोभद्वितीयसंग्रह किट्टिपर्यवसानानामुदयावलिकागतं दलिकं वेद्य मानसंग्रह किडौ स्तिबुकसंक्रमेण संक्रम्य विनाशयति । यदुक्त सप्ततिकाचूर्णौ सूक्ष्मसम्परायप्ररूपणावसरेअतीयम्मि आवलिया हड्डियाओ, ताओ सव्वत्थ वेतिज्जमाणीसु थिबुगसंक्रमेणं विपच्चति । एसो पुव्वमवक्खाणिओ अत्थो, अओ इयाणि भणितो " इति । श्रीमन्मलयगिरिपादादयस्तु तृतीयसंग्रह किट टेरेवावलिकागतं दलं स्तिबुकसङ्क्रमेण संक्रमयति, प्रथमसंग्रह किट्टिद्वितीय संग्रहकियोस्तु यथास्वं द्वितीय संग्रह किङितृतीय संग्रह कियन्तर्गतं वेद्यत इत्याहुः । तथा च तद्ग्रन्थः -- पूर्वोक्ताश्चावलिकास्तृतीयकिट्टिगताः शेषीभूता अपि वेद्यमानासु परप्रकृतिषु स्तिबुकसङ्क्रमेण सङ्क्रमयति, प्रथमद्वितीयकिट्टिगताश्च यथास्वं द्वितीयतृतीयकयन्तर्गता वेद्यन्ते ।" इति । इदन्तु बोध्यम्-इह निषेकविवक्षया क्रोधप्रथमसंग्रहकिट्टेः समयोनावलिकामात्री प्रथमस्थितिः क्रोधद्वितीयसंग्रह किट्टिवेदन प्रथमसमये बोध्या, उदयावलिकागतप्रथमनिषेकदलस्य क्रोधद्वितीयसंग्रहकिट्टितया परिणतत्वात् । कालविवक्षया पुनः क्रोधप्रथम संग्रह किट्टिप्रथमस्थितिरावलिकामात्री, यत उदयनिषेकस्य संक्रान्तत्वेऽपि प्रथमस्थितिचरमनिषेक आवलिकाया अन्ते प्राप्यते, तं निषेकमाश्रित्य कालविवक्षया क्रोधप्रथमसंग्रहकट्टिप्रथमस्थितिरावलिकाप्रमाणा भवति, यथाऽबाधायां दलनिक्षेपाभावेऽपि स्थितिवरमनिषेकमाश्रित्य भण्यते । एवं क्रोधतृतीयादिसंग्रह किट्टिवेदनाद्वाप्रथम समयेऽयमर्थो भावनीयः । ॥ १६९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org