________________
३३० ]
खगढी
[ गाथा-- १६९
'सेकाले' इत्यादि, 'अनन्तरकाले' क्रोवप्रथम संग्रह कि द्विवेदनाद्वासमाप्तेरनन्तरसमय इत्यर्थः, 'द्वितीयकिहिं' क्रमप्राप्तत्वात् क्रोधाद्वितीयसंग्रह किट्टिमपकृष्य द्वितीयस्थितिस्थितक्रोधद्वितीय संग्रह किट्टिगत प्रदेशाग्रमुत्कीर्येत्यर्थः, उदयसमयादारभ्य द्वितीय संग्रह किट्टिवेदनकालत अवलियाsधिका स्थितिध्वसंख्येयगुणक्रमेण निक्षिपन् 'प्रथमस्थिति' प्रत्यासच्या क्रोधद्वितीयसंग्रहकिद्वयाः प्रथमस्थितिं करोति । उक्तञ्च कषायप्राभूतचूर्णी - " से काले को हस्स विदियकिट्टीए पदेसग्गमोकड्डियूण कोहस्स पढमट्ठिदिं करेदि” । इति । अष्टादशाऽधिकशततमैकोनविंशत्युत्तरशततमगाथोक्तं स्थितिषु वेद्यमाना वेद्यमान संग्रह किड्डीनां प्रदेशावस्थानमनुभागऽ-वस्थानं चाऽत्रापि भावनीयम् ।
'ताहे' इत्यादि, तदानीं चैव क्रोधद्वितीयसंग्रह कि द्विप्रथम स्थितिकरणसमययेव 'द्वितीयां किट्टि' क्रोधस्य द्वितीयां संग्रहकिट्टि तु 'वेदयति' अनुभवति । उक्तं च कषायप्राभृतचूण“ताधे कोहस्स विदियकिट्टीवेयगो ।” तथैव सप्ततिकाचूर्णावपि - "तम्मि समए बितिकिट्टीओ दलियं उक्कडिदत्तु पढमठितिं करेइ वेदेह य ।" इति ।। १६८ ।।
अथ क्रोधद्वितीयसंग्रहकिट्टिवेदन प्रथमसमये क्रोधप्रथम संग्रह किट्टेः कियद् दलं सत्कर्मणि विद्यते ? इति जिज्ञासायां संग्रहगाथया कथयति —
इज्माण की पढमसमम्मि पुव्वकिट्टी |
सेसं दुखणूणदुआवलिबद्ध उदय आवलिगयं य ॥ १६९ ॥ ( गीतिः )
वेद्यमान कियाः प्रथमसमये पूर्व कट्टयाः ।
शेर्पा द्विक्षणोनद्वयावलिकाबद्धमुदयावलिकागतं च ॥ १६९ ॥ इति पदसंस्कारः ।
'वेइज्ज०' इत्यादि, 'वेद्यमान कियाः प्रथमसमये' वेद्यमान संग्रह किट्टिवेदनकालप्रथमसमये 'पूर्वकिडया:' वेद्यमान संग्रह कियपेक्षया प्राक्तन संग्रह किद्वयाः 'शेष' अवशिष्यमाणप्रदेशाग्रं तु दिक्षणोनद्वयावलिकाबद्धं नूतनमुदयावलिकागतं च भवति, ततोऽन्यद्दलस्यान्यकिट्टितया परिणत्वात् । इह प्रथम स्थितेरुदयावलिकागतं क्रोधप्रथम संग्रह किट्टिदलं यथाक्रमं स्तिबुकसङ्क्रमेण वेद्यमान संग्रहको संक्रम्य विनाशयति, द्विसम योन यावलिकाबद्धनूतन दलमपि यथागमं वेद्यमान संग्रहको संक्रम्य विनाशयति । यदुक्त' कषायप्राभृतचूर्णी - "जं संगहकिहिं वेदेदृण तदो से काले अणं संगह किहिं पवेदयदि, तदो तिस्से पुव्वसमयवेदिदाए संगह किट्टीए जे दो आवलियबंधा दुसमयूणा आवलियपविट्ठा च अस्सि समए वेदिज्जमाणिगाए संगह किट्टीए पयोगसा संकमति ।" इति । अथोपयुक्तसंग्रह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org