________________
क्रोधप्रथमसंग्रहकिट्टिवेदनचरमसमये स्थितिसत्ता ] किट्टिवेदनाद्धाधिकारः
[ ३२७ 'संख०' इत्यादि, तत्र 'अन्येषां' नाम-गोत्र-वेदनीयलक्षणानामघातिकर्मणां स्थितिबन्धः 'संख्यवर्षप्रमितः' संख्यातसहस्रवर्षमात्रो भवति । किट्टिवेदनाद्धाप्रथमसमये-ऽघातिकर्मणां स्थितिबन्धः संख्यातवार्षिकोऽभवत् , ततः संख्यातेषु स्थितिबन्धेषु गतेषु क्रोधप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमयेऽपि संख्यातसहस्रवर्षप्रमाण एव भवति, नवरमसौ किट्टिवेदनाद्धाप्रथमसमयबन्धतः संख्येयगुणहीनो भवति । ॥१६६॥
अथ क्रोधप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमये सप्तानामपि कर्मणां स्थितिसत्त्वमभिधत्तेसंतं मोहस्संतोमुहुत्तहीणअडमासहिअछद्दा । घाइअघाईण कमा संखासंखवरिसा णेयं ॥१६७॥ सत्त्वं मोहस्याऽन्तर्मुहूर्तहीनाऽष्टमासाधिकषडब्दाः । घात्यघातिनां क्रमात् सङ्ख्याऽसङ्घयवर्षा ज्ञेयम् ।।१६७।।
'संत' इत्यादि, तत्र क्रोधप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमये 'मोहस्य' संज्वलनचतुष्कस्य 'सच' स्थितिसत्त्वम् 'अन्तमुहूर्तहीनाष्टमासाधिकषडब्दाः' अन्तमुहूर्तन्यूनाष्टमासाधिकषड्वर्षा भवति । अत्राऽब्दशब्दो हि वर्षवाचकः, “स संपर्यनूभ्यो वर्ष हायनोऽब्दं समा शरत्" इति हेमीयवचनात् । “अब्दो वर्षे दरस्त्रासे” इति लिङ्गानुशासनवचनाच पुस्त्वम् । भावार्थः पुनरयम्किट्टिवेदनाद्धाप्रथमसमये संज्वलनचतुष्कस्य यत् स्थितिसत्त्वमष्टवार्षिकमासीत्, तत् क्रोधप्रथमसंग्रहकिट्टिवेदनचरमसमयेऽन्तमुहूर्तन्यूनाऽष्टमासाऽधिकषड्वर्षप्रमितं भवति । इत्थमन्तमुहूर्ताधिकषोडशमासैः क्रोधप्रथमसंग्रहकिट्टिवेदनकाले मोहनीयस्थितिसत्त्वस्य हानिर्जाता । सा च युक्तियुक्ता,
राशिकेन साधितत्वात् । तथाहि-क्रोधवेदनाद्धायाश्चरमसमये स्थितिसत्त्वं चतुर्वर्षप्रमितं भविष्यति, यत् क्रोधप्रथमसंग्रहकिट्टिवेदनाद्धाप्रथमसमयेऽष्टवार्षिकमासीत् । तदेवं क्रोधसंग्रहकिट्टित्यवेदनकाले स्थितिघातैश्चतुर्वर्षमात्रं स्थितिसचं घात्यते । यदि क्रोधसंग्रहकिट्टित्रयवेदनकाले चतुर्वर्षप्रमितं स्थितिसत्त्वं घात्यते, तोकस्याः क्रोधप्रथमसंग्रहकिटेर्वेदनकाले कियत् स्थितिसचं घात्येत ? इति प्रमाणफलमिच्छया गुणयित्वा प्रमाणेन विभज्यते, तदेच्छाफलं चतुर्मासाधिकवर्षप्रमाणं प्राप्यते । न्यासः- प्रमाणम् प्रमाणफलम इच्छा इच्छाफलम्
३। ४ वर्षाणि। १। चतुर्मासाधिकवर्षः । इत्थं त्रैराशिकेन चतुर्मासाधिकवर्षप्रमाणं स्थितिसत्वं क्रोधप्रथमसंग्रहकिट्टिवेदनकाले घातयितव्यम् , परं क्रोधद्वितीयसंग्रहकिट्टिवेदनकालतस्तृतीयसंग्रहकिट्टिवेदनकालतश्च क्रोधप्रथमसंग्रहकिट्टिवेदनकालस्य विशेषाधिकत्वस्य वक्ष्यमाणत्वात् तत्रा-ऽन्तर्मुहूर्ताधिकषोडशमासप्रमाणं स्थितिसत्त्वं घात्यते । शेषयोस्तु द्वयोः संग्रहकिट्टयोर्वेदनकाले यथायोग्यमन्तमुहूर्तन्यूनषोडशमासप्रमितं स्थितिसत्त्वं घातयिष्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org