________________
३२८ ]
खवगसेढी
[गाथा-१६७ 'घाइअघाईण' इत्यादि, 'पात्यघातिना ज्ञानावरणदर्शनावरणाऽन्तरायाणां नाम-गोत्र-वेदनीयानां च कर्मणां स्थितिसचं क्रमेण सङ्ख्याऽसङ्ख्थवर्षा भवति । किट्टिवेदनाद्धाप्रथमसमये घातिकर्मणां सङ्ख्यातवर्षमितमघातिकर्मणां चाऽसङ्ख्यातवर्षमितं स्थितिसत्वमासीत् , ततः क्रोधप्रथमसंग्रहकिट्टिवेदनकाले संख्यातेषु स्थितिघातेष्वतिक्रान्तेष्वपि घातित्रयस्य स्थितिसचं संख्यातवर्षाण्यघातित्रयस्य चा-ऽसंख्यातवर्षाणि विद्यते, किन्तु यथाक्रम संख्येयगुणहीनमसंख्येयगुणहीनं च भवतीत्यर्थः । उक्तञ्च कषायप्रोभृतचूर्णी-“घादिकम्माणं ठिदिसंतकम्म संखेजाणि वस्साणि, सेसाणं कम्माणं ठिदिसंतकम्ममसंखजाणि वस्साणि ।" इति । ___क्रोधप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमये क्रोधप्रथमसंग्रहकिटेरुदयसमयाधिकावलिकागतं समयोनद्वथावलिकावद्धं च नूतनं दलं वर्जयित्वा शेषं क्रोधप्रथमसंग्रहकिट्टिसर्वदलं गृहीत्वाऽसंख्येयभागप्रमाणदलं क्रोधद्वितीयसंग्रहकिट्टितृतीयसंग्रहकिट्टिपूर्वापूर्वावान्तरकिट्टिषु मानप्रथमसंग्रहकिट्टिपूर्वापूर्वाऽवान्तरकिट्टिषु च यथासंभवं संक्रमयति । शेषवह्वसंख्येयभागप्रमाणदलतः क्रोधद्वितीयसंग्रहकिटेरधस्तादपूर्वाऽवान्तरकिट्टीनिवर्तयति । इत्थं क्रोधप्रथमसंग्रहकिर्बह्वसंख्येयभागकल्पं दलं संज्वलनक्रोधद्वितीयसंग्रहकिट्टी संक्रमयति । क्रोधप्रथमसंग्रहकिट्टिसकलदलस्य च त्रयोदशचतुविंशतिभागप्रमाणत्वात् क्रोद्वितीयसंग्रहकिट्टी दलं मोहनीय सकलदलस्य चतुर्दशचतुर्विशतिभागमानं (१४) जायते । इत्थं क्रोधद्वितीयसंग्रहकिट्टौ दलमितरसंग्रहकिट्टयपेक्षया चतुर्दशगुणं भवति । इतरसंग्रहकिट्टीनां प्रत्येकं दलस्यैकचतुर्विंशतिभागप्रमाणत्वात् । एवमवान्तरकिट्टयोऽपि वक्तव्याः ।
ननु यद्यत्र बह्वसंख्येयभागप्रमितदलमधस्तना-ऽपूर्वाऽवान्तरकिट्टितया परिणम्येत, तर्हि क्रोधद्वितीयसंग्रहकिटेरवान्तरकिट्टयन्तरोत्पन्ना-ऽपूर्वावान्तरकिट्टिषु दीयमानसर्वदलतो-ऽसंख्येवगुणं क्रोधद्वितीयसंग्रहकिट्टयन्तरोत्पन्नाऽपूर्वावान्तरकिट्टिषु दीयमान सर्वदलं स्यात् । तथाऽभ्युपगमे च प्रागुक्तं यत् षट्त्रिंशदुत्तरशततमगाथायाष्टीकायां संग्रहकिट्टयन्तरोत्पन्ना-ऽपूर्वावान्तरकिट्टियु निक्षिप्तसर्वदलतो-ऽवान्तरकिट्टयन्तरोत्पन्नापूर्वावान्तरकिट्टिष्वसंख्येयगुणं दलं दीयत इति, तेन सह विरोधः स्यादिति, मैवम् , प्राक सर्वदलस्याऽसंख्येयभागमानं दलमपूर्वावान्तरकिट्टितया परिणमयति स्म । इदानीं तु क्रोधप्रथमसंग्रहकिट्टिप्रतिबहुदलं तिीयसंग्रहकिट्टितया परिणमयति। तेनाऽवान्तरकिट्टयन्तरेषु निर्वय॑मानास्वपूर्वावान्तरकिट्टिषु दीयमानदलतोऽसंख्येयगुणं दलं क्रोधद्वितीयसंग्रहकिट्टयन्तरे निवर्त्यमानास्वपूर्वावान्तरकिट्टिषु दीयमानं भवति । पूर्ववत् क्रोधद्वितीयसंग्रहकिट्टयन्तरोत्पन्नाऽपूर्वावान्तरकिट्टिषु दीयमानदलतोऽवान्तरकिट्टयन्तरोत्पन्नाऽपूर्वावान्तरकिट्टिष्वसंख्येयगुणदलनिक्षेपाभ्युपगमे त्वेकैकस्मिन्नवान्तरकिट्टयन्तरे त्रयोदशाऽपूर्वाऽवान्तरकिट्टयो निष्पादषितव्याः, द्वितीयसंग्रहकिट्टिपुरातनसत्तागतदलतस्त्रयोदशगुणत्वात्क्रोधाथमसंग्रहकिट्टिदलस्य । एकैकस्मिन्नन्तरे त्रयोदशाऽपूर्वावान्तरकिट्टिनित्यभ्युपगमे तु पूर्वापूर्वावान्तरकिट्टिषु दलनिक्षेप इत्थं प्रसज्येत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org