________________
३२६ ]
खवगढी
अन्तर्मुहूर्तहीना बन्ध मोहस्य शतदिना घातिनाम् ।
अन्तर्मुहूर्तहीना दशवर्षाः सङ्ख्यवर्षप्रमितोऽन्येषाम् ॥ १६६ ॥ इति पदसंस्कारः ।
1
'अंतो० ' इत्यादि, तत्र क्रोधप्रथम संग्रह किट्टिप्रथमस्थितौ समयाधिकाऽऽवलिकाशेपायां 'मोहस्य' संज्वलनचतुष्कस्य 'बन्धः ' स्थितिबन्धः अन्तर्मुहूर्तहीनाः शतदिना भवति । उक्तं च कषायप्राभृतचूर्णौ —“चदुसंजलणाणं ठिदिबंधो वे मासा चत्तालीसं च दिवसा अंतोमुहुत्तणा ।" इति । भावार्थः पुनरयम् - किट्टिवेदना प्रथमसमये संज्जलनचतुष्कस्य स्थितिबन्धातुर्मासिक आसीत्, स क्रोधप्रथमसंग्रह किट्टिवेदनाद्धाचरमसमयेऽन्तर्मुहूर्त्त न्यूनशतदिवसमात्रो जायते । इत्थं क्रोधप्रथम संग्रह किट्टवेदनकाले स्थितिबन्धस्याऽन्तर्मुहूर्ताधिकविंशतिदिनैर्हानिर्जाता । युक्तियुक्तैषा, त्रैराशिकेन साधितत्वात् । तथाहि-- क्रोधवेदनाद्वायाश्चरमसमये स्थितिबन्धो द्वैमासिको भविष्यति यः क्रोवप्रथम संग्रह किट्टिवेदनप्रथमसमये चातुर्मासिक आसीत् । तेन क्रोधसंग्रह कित्रियवेदनकाले द्विमासप्रमितो मोहस्य स्थिति etra |
यदि क्रोधसंग्रह कित्रियवेदन काले स्थितिबन्धो द्विमासप्रमाणो हीयते, तर्ह्येकस्याः क्रोधसंग्रहकिट्ट्या वेदनकाले कियान् स्थितिबन्धो हीयेत ? इति त्रैराशिकमवलम्ब्य प्रमाणकलमिच्छया गुणयित्वा प्रमाणेन विभज्यते, तदा स्थितिबन्धस्य हानिर्लभ्यते । प्रमाणमत्र संग्रह किट्टित्रिक वेदनकालः, प्रमाणफलं मासद्विकमिच्छा चैकसंग्रहकिट्टिवेदनकालः । तेन प्रमाणफलं षष्टिदिवस लक्षणमिच्छयैकलक्षणया गुण्यते, तदा षष्टिर्लभ्यते, सा पुनस्त्रिकरूपेण प्रमाणेन विभज्यते, तदा लब्धा विंशतिर्दिवसाः ।
न्यासः - प्रमाणम् प्रमाणफलम् इच्छा इच्छाफलम् ३। २ मासौ । १ । २० दिवसाः
[ गाथा- १६६
इत्थं त्रैराशिकेन विंशतिदिनमितः स्थितिबन्धः क्रोधस्यैकैक संग्रह किट्टिवेदनकाले परिहातव्यः, किन्तु क्रोधद्वितीयसंग्रह किट्टिकालतस्तृतीयसंग्रह किट्टिवेदनकालतञ्च क्रोधप्रथम संग्रह कट्टि - वेदकालस्य विशेषाधिकत्वस्य वक्ष्यमाणत्वादन्तर्मुहूर्ताधिकविंशतिदिन प्रमाणो हीयते क्रोधप्रथमसंग्रहfagaraat | कोवस्य द्वितीय संग्रह किट्टिवेदनकाले तृतीय संग्रह किट्टिवेदनकाले च यथासंभवमन्तर्मुहूर्तन्यूनविंशतिदिनैः स्थितिबन्धो हीयते ।
'घाई' इत्यादि, 'घातिकर्मणां मोहनीयस्योतत्वाज्ज्ञानावरण-दर्शनावरण -ऽन्तरायाणामित्यर्थः, स्थितिबन्धोऽन्तमुहूर्तहीना दशवर्षा भवति । किट्टिवेदनाद्वाप्रथमसमये यः स्थितिबन्धः संख्यातवार्षिक आसीत्, स इदानीमन्तमुहूर्त न्यूनदशवर्षाप्रमाणो जायत इत्यर्थः । प्रतिपादितं च कषायप्राभृतचूर्णी- “तिन्हं घादिकम्माणं ठिदिबंधो दसवस्साणि अंतोमुहुत्तणाणि ।” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org