________________
[ ३२५
क्रोधप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमयः ] किट्टिवेदनाद्धाधिकारः
यथा क्रोधप्रथमसंग्रहकिट्टया अवान्तरकिट्टीनां विनाशक्रमो दर्शितः, तथैव शेषाणामप्येकादशसंग्रहकिझ्यवान्तरकिट्टीनां प्रतिसमयं विनाशक्रमस्तावदवगन्तव्यः, यावत्स्वस्ववेदनकालस्य द्विचरमसमयः ॥ १६४ ॥
पूर्वोक्तविधानेन क्रोधप्रथमसंग्रहकिट्टि वेदयन् क्रोधप्रथमसंग्रहकिट्टिप्रथमस्थितौ द्वयावलिकाशेषायां समयाऽधिकाऽऽवलिकाशेषायां च प्रवर्तमानपदार्थान् निरुरूपयिषुः संग्रहगाथया सर्वासां संग्रहकिट्टीनां स्वस्वप्रथमस्थितौ द्वथावलिकाशेषायां समयाधिकावलिकाशेषायां च प्रवर्तमानपदार्थान् दर्शयति-- वेइज्जताइठिईअ दुआवलिसेसयाअ आगालो। छिण्णो खणुत्तरावलिसेसाअ जहण्णुदीरणाऽन्तुदओ ॥१६५।। (गीतिः)
वेद्यमानादिस्थितौ द्वयावलिकाशेषायामागालः । । छिन्नः क्षणोत्तराऽऽवलिकाशेषायां जघन्योदीरणाऽन्तोदयः ॥१६५॥ इति पदसंस्कारः ।
'वेइज्ज०' इत्यादि, 'वेद्यमानादिस्थितौ' या संग्रहकिट्टिद्यते, तस्याः प्रथमस्थितौ द्वयावलिकाशेषायामागालः 'छिन्नो' व्यवच्छिन्नो भवति, तथा 'क्षणोत्तरावलिकाशेषायां वेद्यमानसंग्रहकिट्टिप्रथमस्थितौ समयाधिकाऽऽवलिकाशेषायां 'जघन्योदीरणा' जघन्यस्थित्युदीरणा 'अन्तोदयः' चरमोदयश्च जायते । अथाऽस्याः संग्रहगाथाया अर्थः प्रस्तुतमनुसृत्य परिभाव्यते-क्रोधप्रथमसंग्रहकिट्टिप्रथमस्थितौ द्वयावलिकाशेषायां प्रागुक्तस्वरूप आगालो व्यवच्छिद्यते । समयाधिकावलिकाशेषायां च क्रोधस्य जघन्यस्थित्युदीरणा भवति । तथाहि-क्रोधप्रथमसंग्रहकिट्टिप्रथमस्थितौ समयाधिकाऽऽवलिकाशेषायां प्रथमस्थितिचरमनिषेकत उदये दलं प्रक्षिपतः क्षपकस्य क्रोधस्य जघन्या स्थित्युदीरणा जायते । न च द्वितीयस्थितित उदीरणा कुतो न जायते ? इति वाच्यम् , प्रथमस्थितेरावलिकाद्वये शेष आगालस्य व्यवच्छिन्नत्वात् । तथा क्रोधप्रथमसंग्रहकिट्टिप्रथमस्थितौ समयाधिकावलिकाशेषायां क्रोधप्रथमसंग्रहकिट्टयाश्चरमोदयो भवति । ततः परं तस्या उदयो न प्रवर्तते, क्रोधद्वितीयसंग्रहकिट्टया उदयात् । उक्तं च कषायप्राभृतौँ -"कोहस्स पढमकिहिं वेदयमाणस जा पढमहिदी, तिस्से पढमहिदीए समयाहियाए आवलियाए सेसाए एदम्हि समये जो विही, तं विहिं वत्तइस्सामो । तं जहा-ताधे चेव कोहस्स जहण्णगो ठिदिउदीरगो। कोहपढमकिट्टीए चरिमसमयवेदगो जादो।" इति । एवमग्रेऽपि वेद्यमानक्रोधद्वितीयादिसंग्रहकिट्टीनां प्ररूपणा यथावसरं कर्तव्या ॥ १६५ ॥
अथ क्रोधप्रथमसंग्रहकिट्टिवेदनचरमसमये सप्तानां कर्मणां स्थितिबन्धं व्याजिही राहअंतोमुहुत्तहीणा बंधो मोहस्स सयदिणा घाईणं । अंतोमुहुत्तहीणा दसवासा संखवासपमिओऽनाणं ॥१६६॥ (आर्याशीतिः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org