SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ३२२ ] खवगसेढी [अभव्यप्रायोग्यप्ररूपणाश्रितयन्त्रकम् यवमध्यस्योपरि सकलस्थानाऽसंख्येयभागे गते द्विगुणहीना भवन्ति, पुनस्तावन्मात्रेषु स्थानेषु गतेषु द्विगुणहीना भवन्ति । एवं तावद्वक्तव्यम् , यावच्चरमस्थानम् । एवं भवबद्धा अपि बोध्याः। (६) अल्पबहुत्वम्(१) तत्र नानाऽन्तराणि स्तोकानि । ( गाथा--१५३) (२) तत एकान्तरमनन्तगुणम् । (७) अतीतकालयेकजीवमाश्रित्याऽनुसमयनिर्लेपनकालाल्पबहुत्वम्(१) एकसामयिकोऽनुसमयनिर्लेपनकालः सर्वप्रभूतः । (गाथा--१५४ ) (२) ततो द्विसामयिकोऽनुसमयनिर्लेपनकालो विशेषहीनः । (३) ततस्त्रिसामयिकोऽनुसमयनिर्लेपनकालो विशेषहीनः । (४) ततश्चतुःसामयिकोऽनुसमयनिर्लेपनकालो विशेषहीनः । एवं तावद्वक्तव्यम् , यावदावलिकाऽसंख्येयभागः । परम्परोपनिधयाऽल्पबहुत्वम्-एकसामयिकाऽनुसममनिर्लेपनकालत आवलिकाऽसंख्येयभागे गतेऽनुसमयनिर्लेपनकालो द्विगुणहीनो भवति । ततः पुनरावलिकाऽसंख्येयभागे गते द्विगुणहीनो भवति । एवं तावद्वक्तव्यम् , यावच्चरमस्थानम् । (८) एकादिसमयान्तरेण निर्लेपितभवसमयप्रबद्धानामल्पबहुत्वम्-- (१) एकसमयान्तरेण निर्लेपितसमयप्रबद्धाः स्तोकाः ( गाथा--१५५--१५६ ) (२) ततो द्विसमयान्तरेण निर्लेपितसमयप्रबद्धा विशेषाऽधिकाः । (३) ततस्त्रिसमयान्तरेण निर्लेपितसमयप्रबद्धा विशेषाऽधिकाः । एवमेकोत्तरवृद्ध्यापन्नसमयान्तरेण निर्लेपिताः समयप्रबद्धा विशेषाधिकक्रमेण तावद्वक्तव्याः, यावद् यवमध्यम् । ततो यवमध्यस्योपर्येकोत्तरवृद्धयापन्नसमयान्तरेण निर्लेपितसमयप्रबद्धा विशेषही मक्रमेण गच्छन्ति, यावच्चरमस्थानम् । तत्र प्रथमस्थानतः पल्योपमा-ऽसंख्येयभागमात्रस्थानेषु गतेष्वेकं द्विगुणवृद्धिस्थानं प्राप्यते । पुनस्तावन्मात्रेषु स्थानेषुगतेषुद्विगुणवृद्धिस्थानंलभ्यते। एवमग्रेऽपि। सर्वस्थानानाञ्चाऽसंख्येयभागे यवमध्यं प्राप्यते । तत एकोत्तरवृद्धयापन्नसमयान्तरेण निर्लेपिताः समयप्रवद्धा विशेषहीनक्रमेण गच्छन्ति, पल्योपमासंख्येयभागमात्रस्थानेषु च गतेषु द्विगुणहीना भवन्ति, पुनस्तावन्मात्रेषु स्थानेषु गतेषु द्विगुणहीनाः । एवं तावद् वाच्यम् , यावच्चरमस्थानम् । एवं भवबद्धा अपि बोध्याः। (९) एकसमये निर्लेपितभवसमयप्रबद्धाः-- एकसमये जघन्यत एकसमयप्रबद्धो एकभवबद्धो वा निर्लेप्यते । उत्कृष्टतः पुनरेकसमये पल्यो - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy