SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ अभव्यप्रायोग्यप्ररूपणाश्रितयन्त्रकम् ] किट्टिवेदनाद्धाधिकारः [ ३२१ . अभव्यप्रायोग्यप्ररूपणामाश्रित्य यन्त्रकम् (१) निर्लेपनस्थानानि (अ) निर्लेपनस्थानानि पल्योपमाऽसंख्येयभागप्रमितानि भवन्ति । (गाथा-१४७ ) (ब) मतान्तरेण तु कर्माऽवस्थानकालबह्वसंख्येयभागमात्राणि भवन्ति । ( गाथा-१४७ ) (२) एकजीवमाश्रित्य निर्लेपनस्थानेषु निर्लेपितसमयप्रबद्धानां व्यतिक्रान्तकालाल्पबहुत्वम्(१) अतीतकाले जघन्यनिर्लेपनस्थाने निर्लेपितसमयप्रबद्धानां व्यतिक्रान्तः कालोऽल्पः । (गाथा-१४८-१४९) (२) ततोऽतीतकाले द्वितीयनिर्लेपनस्थाने निर्लेपितसमयप्रबद्धानां व्यतिक्रान्तः कालो विशेषाधिकः । (३) ततोऽतीतकाले तृतीयनिर्लेपनस्थाने निर्लेपितसमयप्रबद्धानां व्यतिक्रान्तकालो विशेषाधिकः । एवं विशेषाधिकक्रमेण ताबद्वक्तव्यम् , यावद् यवमध्यम् । यवमध्यस्योपरितन उत्तरोत्तरनिर्लेपनस्थाने व्यतिक्रान्तः कालो विशेषहीनक्रमेण तावद्गच्छति, याव. दुत्कृषनिर्लेपनस्थानम् । परम्परोपनिधया तु जयन्यनिर्लेपनस्थानतः पल्योपमाऽसंख्येयभागे गते व्यतिक्रान्तकालो द्विगुणो भवति । ततः पुनः पल्योपमाऽसंख्येयभागे गते व्यतीतः कालो द्विगुणो भवति । एवं तावद्वाच्यम् , यावद् यवमध्यम् । तस्योपरि पल्योपमाऽसंख्येयभागे गते द्विगुणहीनो भवति, ततः पुनः पल्योपमाऽसंख्येयभागे गते द्विगुणहीनो भवति । एवं तावद्वक्तव्यम् , यावदुत्कृष्ठनिर्लेपनस्थानम् ।। (३) अल्पबहुत्वम्(१) नानाद्विगुणहानयः स्तोकाः, ताश्च पल्योपमाऽर्धच्छेदनकाऽसंख्येयभागप्रमाणाः । ( गाथा--१५० ) (२) ताभ्यो द्विगुणहान्यरन्तरमसंख्येयगुणम् ।। (४) एकजीवमाश्रित्य भवबद्वाऽपेक्षया प्ररूपणम्समयप्रबद्धवद् भवबद्धानप्याश्रित्य वक्तव्यम् , नवरं समयप्रबद्धस्य जघन्यनिर्लेपनस्थानतोऽन्तमुहूर्तप्रमाणेषु स्थानेषु गतेषु भवबद्धस्य जघन्यनिर्लेपनस्थानं प्राप्यते । (गाथा-१५१) (५) एकादिप्रदेशैनिर्लेपितभवसमयप्रबद्धानामल्पबहुत्वम्(१) एकप्रदेशेन निर्लेपिताः समयप्रबद्धाः स्तोका भवन्ति । ( गाथा--१५२) (२) द्वाभ्यां प्रदेशाभ्यां निर्लेपिताः समयप्रबद्धा विशेषाधिका भवन्ति । (३) त्रिभिः प्रदेशैर्निर्लेपिताः समयप्रबद्धा विशेषाधिका भवन्ति । ___ एवं विशेषाऽधिकक्रमेण तावद्वक्तव्यम् , याद् यवमध्यम् । यवमध्यस्योपर्येकोत्तरवृद्धथापनप्रदेशैनिर्लेपितसमयप्रबद्धा विशेषहीनक्रमेण तावद् गच्छन्ति, यावच्चरमस्थानम् । अथ परम्परोपनिधयाऽ-ल्पबहुत्वम्-- एकप्रदेशेन निर्लेपितसमयप्रबद्धतः सकलस्थानासंख्येयभागे गते निर्लेपितसमयप्रबद्धा द्विगुणा भवन्ति, ततः पुनस्तावत्स्थानेषु गतेषु निर्लेपितसमयप्रबद्धा द्विगुणा भवन्ति । एवं तावद्वक्तव्यम् , यावद् यवमध्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy