________________
३२० ]
aarसेढी
| गाथा - - १५९-१६३
ar कर्मावस्था कालाभ्यन्तरे सान्तरनिरन्तरस्वरूपेण यावन्तं कालं न वेद्यते, समुदितस्तावान् कालः सर्वाऽवेदनकालो भण्यते, पूर्वपदतथाऽसंख्यातगुणो भवति । सोऽप्यसंख्यातपल्योपमप्रथमवर्गमूलमात्रो भवति ।
1
'तो' इत्यादि, 'ततः' कर्माऽवस्थानकालाभ्यन्तरयेकसमयबद्धस्य सर्वाऽवेदनकालतः 'सर्वस्तु वेदनकाल:' कर्मा-वस्थान कालाभ्यन्तर एकसमयप्रबद्धस्य सर्वो वेदनकालोऽसंख्यगुणो भवति । इदमुक्त' भवति - एकसमयप्रबद्धो बन्धावलिकायां व्यतिक्रान्तायां निरन्तरं पल्योपमाऽसंख्येयभागं यावद् वेद्यते, तत एकसमयतः प्रभृति समयोत्तरवृद्धिक्रमेणोत्कर्षतः पल्योपमाऽसंख्येयभागं यावन्न वेद्यते । ततः पुनर्निरुक्तसमयप्रबद्धः समयोत्तरवृद्धिक्रमेणोत्कृष्टतो निरन्तरं पल्योपमाऽसंख्येयभागं यावद् वेद्यते । ततः पुनरेकादिसमयैरन्तरयित्वा वेद्यते, एवं कर्माऽवस्थानकालाभ्यन्तरे यावन्तं कालं निरुक्तसमयबद्ध वेद्यते, समुदितस्तावान् कालः सर्ववेदनकाल उच्यते, पूर्वपदतश्चाऽसंख्या - तगुणो भवति, स च कर्माऽवस्थान कालस्य बहुसंख्येय भागप्रमाणो बोद्धव्यः, पूर्वपदस्य पल्योपमाऽसंख्येयभागमात्रत्वेन कर्माऽवस्थानकालाऽसंख्येयभागमात्रत्वात् अस्माच्च पदात् कर्मावस्थानकालस्य विशेषाधिकत्वात् । 'तो'
इत्यादि, 'ततः' कर्माऽवस्थानकालाभ्यन्तरे समयबद्धस्य सर्ववेदनकालात् 'कर्मस्थितिः' कर्माऽवस्थानकाललक्षणा स्थितिर्विशेषाधिका भवति । निरुक्तसमयबद्धस्य सर्ववेदनकालः सर्वाऽवेदनकालश्वोभौ मिलित्वा कर्मावस्थानकालो भवतः । अथ निरुक्तसमयबद्धसर्वावेदनकालस्य सर्ववेदनकालाऽसंख्येयभाग प्रमाणत्वात् कर्माऽवस्थान कालः सर्ववेदनकालतः सर्वाऽवेदककालेन विशेषाधिको भवति । प्रत्यपादि च कषायप्राभृतचूर्णी - "अप्पाबहुअं(१) सव्वत्थोवमणुस मयणिल्लेवणकंडयमुक्कस्सयं । (२) जे एगसमएण पिल्लेविनंति भवबडा, ते असंखेज्जगुणा । (३) समयपबडा एगसमएण पिल्लेविज्जंति असंखेज्जगुणा । (४) समयपबडसेसएण विरहिदाओ णिरंतराओ हिंदीओ असंखेज्जगुणाओ । (५) पलिदोवमवग्गमूलमसंखेज्जगुणं । (६) णिसेगगुणहाणिट्ठाणंतरमसंखेज्जगुणं । (७) भवबडाणं णिल्लेवणद्वाणाणि असंखेज्जगुणाणि । (८) समयपबsti पिल्लेवणाणाणि विसेसाहियाणि । (९) समयपबडस्स कम्मट्ठदोए अंतो अणुसमयअवेदगकालो असंखेज्जगुणो । (१०) समयपबडस्स कम्मद्विदीए अंतो अणुसमयवेदगकालो असंखेज्जगुणो । (११) सब्वो अवेदगकालो असंखेज्जगुणो । (१२) सव्वो वेदगकालो असंखेज्जगुणो । (१३) कम्मट्ठिदी विसेसाहिया । " इति ।। १५९ - १६० - १६१-१६२-१६३ ।।
Jain Education International
For Private & Personal Use Only
?
www.jainelibrary.org