________________
अक्षपकमाश्रित्य त्रयोदशादानामल्पबहुत्वम ] किट्टिवेदनाद्धाधिकारः
[ ३१९ वाव्यम् , यावच्चरमस्थानम् । इह विवक्षितस्थानतो यावत्सु स्थानेषु गतेषु दलं दिगुणहीनं भवति, तावन्ति स्थानानि प्रदेशद्विगुणहानिस्थानान्तरमुच्यन्ते, तच्चाऽसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणम् । यदुक्तं पञ्चसंग्रहटीकायाम्--"एकस्मिन् द्विगुणहान्योरन्तरे यानि निषेकस्थानानि, तानि असंख्येयगुणानि, तेषामसंख्येयानि पल्योपमवर्गमूलानि परिमाणं इति कृत्वा ।" इति । ततो भवबद्धानां निर्लेपनस्थानान्यसंख्येयगुणानि भान्ति । एतान्यप्यसंख्यातपल्योपमप्रथमवर्गमूलप्रमितानि प्राक्प्ररूपितानि, किन्तु पूर्वतोऽसंख्येयगुणानि बोद्धमानि । ततः पुनः समयप्रवद्धानां निर्लेपनस्थानानि विशेषाधिकानि भवन्ति, आधिक्यं चाऽन्तमुहर्तसमयराशिमात्रेण ज्ञातव्यम् । कथमेतदवगन्तव्यम् ? इति चेत् , उच्यते-समयप्रबद्धानां जघन्यनिर्लेपनस्थानतोऽन्तमुहूर्तप्रमाणानि निर्लेपनस्थानान्युल्लङ्घय भवबद्धानां जघन्यं निर्लेपनस्थानं प्राप्यते, चरमनिर्लेपनस्थानं त्वेकत्र । तेन भवबद्धनिर्लेपनस्थानतः समयप्रबद्धनिर्लेपनस्थानान्यन्तमुहूर्तप्रमाणनिर्लेपनस्थानैरधिकानि भवन्ति । ततः कस्थित्या अन्तर-मध्ये कर्मावस्थानकालाभ्यन्तर इत्यर्थः, "क्षणप्रवद्धस्य' एकवचननिर्देशाद् एकसमयप्रबद्धस्याऽनुसमयाऽवेदनकालस्तु तुशब्दस्य भिन्नक्रमत्वेनाऽत्र योजनाद्, 'असंख्यगुणः' असंख्येयगुणो भवति । कर्माऽवस्थानकालस्य प्रथमसमये सञ्चितसमयबद्धस्य बन्धावलिकायां व्यतिक्रान्तायां पल्योपमाऽसंख्येयभागप्रमाणं निरन्तरवेदनकालं व्यतिक्रम्य यत्र वा तत्र वा कर्नाऽवस्थानकालाभ्यन्तरे निरन्तरमवेदनकाल उत्कृष्टतोऽसंख्यातपल्योपमप्रथमवर्गमूलप्रमाणो लभ्यते, उद्वर्तनाऽपवर्तनावलेनोत्कृष्टतो निरन्तरमेतावतां निरुक्तसमयप्रबद्धविशिष्टनिषेकाणां शून्यत्वसम्पादनात् । स च निरुक्तसमयप्रवद्धस्याऽनुसमयावेदनकाल उच्यते, परिमाणतश्चाऽसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणो भवति, किन्तु पूर्वपदतोऽसंख्येयगुणो भवतीति ज्ञाप्यतेऽनेनाल्पबहुत्वेन ।
अथ वक्ष्यमाणानां त्रयाणां पदानामसंख्येयगुणत्वं भवतीति प्रकटयितुकामः प्राह-'तो' 'इत्यादि, 'खणपबद्धस्स' इत्यनुवर्तते, 'ततः' कर्मावस्थानकालाभ्यन्तरे निरन्तरावेदनकालतः 'अनुसमयवेदनानेहा' अनेहःशब्दः कालवाचकः, यदुक्तमभिधानचिन्तामणौ-"स्यात् काल: समयो दिष्टानेहसौ सर्वमूषकः ।" इति । कर्माऽवस्थानकालाभ्यन्तरयेकसमयप्रबद्धस्य निरन्तरवेदनकालोऽसंख्यगुणो भवतीत्यर्थः । एकस्मिन् समये बद्धप्रदेशसमूहो बन्धावलिकायां व्यतिक्रान्तायामसंख्यातपल्योपमप्रथमवर्गमूलप्रमाणं कालं निरन्तरं वेद्यते, तावान् कालः समयप्रबद्धस्याऽनुसमयवेदनकाल उच्यते, स चाऽ-संख्यातपल्योपमप्रथमवर्गमूलमात्रो भवन् पूर्वतोऽसंख्यातगुणो भवति ।
ताउ' इत्यादि, 'तस्मात् कर्माऽवस्थानकालाभ्यन्तर एकसमयप्रबद्धस्य निरन्तरवेदनकालात् सर्वोऽवेदनकालोऽसंख्यगुणो भवति । अयं भावः-एकसमयप्रबद्धो बन्धावलिकाऽतिक्रमेऽसंख्यातपल्योपमप्रथमवर्गमूलमानं कालं यावनिरन्तरं वेद्यते, ततः कदाचिद् वेद्यते, कदाचिन वेद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org