________________
३१८ ]
खवगसेढी
[गाथा-१५९-१६३ भवबद्धानां निर्लेपनस्थानानि क्रमादसंख्यगुणानि । समयप्रबद्धानां निर्लेपनस्थानानि पुनर्विशेषाधिकानि ॥१६१॥ अनुसमयाऽवेदनकालोऽसंख्यगुणस्तु क्षणप्रबद्धस्य । अन्तः कर्मस्थित्यास्ततोऽनुसमयवेदनाऽनेहाः ॥१६२।। तस्मादवेदनकालः सर्वस्ततः सर्वस्तु वेदनकालः ।
क्रमशश्वाऽसंख्यगुणस्ततः कर्मस्थितिर्विशेषाधिका भवति ॥१६३।। इति पदसंस्कारः । 'जेट्ठो' इत्यादि, 'ज्येष्ठः' उत्कृष्टोऽनुसमयनिर्लेपनकालो 'अल्पः' स्तोकः, स च समयप्रबद्धानां भवप्रबद्धानां वा ग्राह्यः, स पुनः प्रमाणत आवलिकाऽसंख्येयभागमात्रो भवति । 'क्रमा असंखगुणाई' ति 'क्रमादसंख्यगुणानि' वक्ष्यमाणानि षट्पदानि क्रमादसंख्येयगुणानि वक्तव्यानि । तद्यथा-तओ' इत्यादि, 'ततः' उत्कृष्टाऽनुसमयनिर्लेपनकालत एकस्मिन् समये निलपितास्तु भवबद्धा असंख्योयगुणा भवन्ति, पल्योपमाऽसंख्योयभागप्रमाणत्वात् । न चाऽयं हेतुरसिद्ध इति वाच्यम् , एकस्मिन् समय उत्कृष्टतः पल्योपमाऽसंख्योयभागमात्राणां भवबद्धानां निर्लेपनस्य प्राक्प्ररूपितत्वात् ।
'तत्तो य' इत्यादि, तेभ्यश्चैकसमये निलंपितभवबद्धेभ्य एकस्मिन् समये निर्लपिताः समयप्रबद्धा असंख्येयगुणा भवन्ति । एतेऽपि पल्योपमऽसंख्येयभागप्रमाणा भवन्ति, किन्त्वेकस्मिन् भवबद्धे निर्लेप्यमानेऽसंख्येवसमयप्रबद्धा निलेप्यन्ते, जघन्यतोऽप्येकभवबद्धेऽन्तमुहर्तमात्राणां समयप्रबद्धानां संभवात् । तेन पूर्वपदतोऽसंख्यातगुणमिदं पदं सिध्यति । 'तो' इत्यादि, 'तेभ्यः' एकस्मिन् समये निलंपितसमयप्रबद्धतः 'क्षणप्रबद्धशेषकरहितस्थितयः' समयप्रबद्धशेषकैविरहिता असामान्यलक्षणा निरन्तराः स्थितयोऽसंख्यातगणा भवन्ति, एता अपि पल्योपमाऽसंख्येयभागप्रमाणाः, किन्त्वेकसमये निलेपितसमयप्रबद्धतोऽसंख्येयगुणाः पल्योपमप्रथमवर्गमूलस्य चाऽसंख्येभागमायो भवन्ति, एताभ्यो वर्गमूलस्याऽसंख्योयगुणत्वात् । एतासां पल्योपमा-ऽसंख्योयभागमात्रत्वं च चतुश्चत्वारिंशदधिकशततमगाथायाष्टीकायामसामान्यस्थितिप्ररूपणावसरे प्राक्प्रतिपादितम् ।
_ 'ताउ' इत्यादि, 'ताभ्यः' समयप्रबद्धशेषकविरहिताभ्यः स्थितिभ्यः ‘पल्यस्य' पल्योपमस्य वर्गमूलं' प्रथमवर्गमूलमसंख्यातगुणं भवति, सुगममेतद् । ततः प्रदेशगुणहानिस्थानान्तरमसंख्योयगुणम् , असंख्यातपल्योपमप्रथमवर्गमूलप्रमाणत्वात् । तथाहि बन्धसमयेऽवाधाकालादूर्ध्व प्रथमस्थितिस्थाने यद् दलं निषिञ्चति, ततो विशेषहीनं दलं द्वितीयस्थितिस्थाने निषिञ्चति । ततोऽपि विशेषहीनं तृतीयस्थितिस्थाने निषिञ्चति । एवं विशेषहीनक्रमेण तावद् निषिञ्चति,यावच्चमस्थितिस्थानम् । तत्र प्रथमस्थानतः पल्योपमाऽसंख्येयभागमात्र स्थानेषु गतेषु प्रथमस्थानापेक्षया दलं द्विगुणहीनं भवति । ततः पुनरेतावत्सु स्थानेषु गतेषु दलं द्विगुणहीनं भवति । एवं तावद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org