________________
अक्षपकमाश्रित्य त्रयोदशपदानामल्पबहुत्वम् ] किट्टिवेदनाद्धाधिकारः
[ ३१७ पमाऽसंख्येयभागे च गते द्विगुणहीना निगदितव्याः । एवं द्विगुणहीना द्विगुणहीनास्तावदभिधातव्याः, यावद् यवमध्यस्याऽवस्तनस्थानेभ्योऽसंख्यातगुणेषु स्थानेषु गतेषु चरमस्थानं प्राप्यते ।
अथाऽल्पबहुत्वमभिधत्ते-'णाणंतरेहि' इत्यादि, 'नानान्तरेभ्यो' नानाप्रकारेभ्योऽन्तरेभ्यो द्विगुणवृद्धिहानिरूपेभ्यो मध्यगतेभ्यः स्थानेभ्यो नानाद्विगुणवृद्धिहानिस्थानेभ्य इत्यर्थः, 'एकान्तरच्छेदनकानि'द्वयोगुिणहान्योर्द्विगुणवृद्धयोकाऽन्तरे स्थितानां स्थानानामर्धच्छेदनकान्यसंख्यगुणानि भवन्ति । न्यगादि च कषायप्राभूतचूर्णी-“णाणंतराणि थोवाणि, एकंतरच्छेदणाणि वि असंखेजगुणाणि ।” इति । इदन्त्ववधेयम्-नानाद्विगुणवृद्धिहानिस्थानेभ्यो द्विगुणहानिस्थानाऽन्तरार्धच्छेदनकानामप्यसंख्येयगुणत्वाद् द्वयोर्द्विगुणहान्योदिगुणवृद्धयोर्वेकाऽपान्तरालवतीनि स्था- . नानि सुतरामसंख्यातगुणानि सिध्यन्ति । तानि च पल्योपमप्रथमवर्गमूला-ऽसंख्येयभागमितानि, अनन्तरवक्ष्यमाणगाथाय एकसमयेन निर्लेपितसमयप्रबद्धतः पल्योपमप्रथमवर्गमूलस्या-ऽसंख्येयगुणत्वेन वक्ष्यमाणत्वात् ॥१५७-१५८॥
अथाऽक्षपकस्य त्रयोदशपदानामल्पबहुत्वमभिधातुकाम आहजेट्ठोऽणुसमयणिल्लेवणकालोऽप्पो तओ इगे समये । णिल्लेविया उ भवबद्धा तत्तो य समयपबद्धा ॥१५९॥ तो खणपबद्धसेसयरहियठिई ताउ वग्गमूलं य । पल्लस्स तो पसगुणहाणिठाणंतरं तत्तो ॥१६०॥ भवबद्धाणं णिल्लेवणठाणाइं कमा असंखगुणाई। समयपबद्धाणं पिल्लेवणठाणाणि उण विसेस हिआई ॥१६१॥
(आर्यागीतिः) अणुसमयअवेयणकालोऽसंखगुणो उ खणपबद्धस्स । अंतो कम्मठिईए तोऽणुसमयवेयणअनेहो ॥१६२॥ ताउ अवेयणकालो सब्वो तो सव्वगो उ वेयणकालो । कमसो य असंखगुणो तो कम्मठिई विसेसअहिआ होज्जा ॥१६३॥
(आर्यागोतिः) ज्येष्ठोऽनुसमयनिर्लेपनकालोऽल्पस्तत एकस्मिन् समये । निर्लपितास्तु भवबद्धास्तेभ्यश्च समयप्रबद्धाः ॥१५९।। तेभ्यः क्षणप्रबद्धशेषक-रहितस्थितयस्ताभ्यो वर्गमूलश्च । पल्यस्य ततः प्रदेशगुणहानिस्थानान्तरं ततः ॥१६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org